________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
.
बा.ग.भू..
Hu
न्तरम् अन्तरङ्ग। तत्रैव यत्र सीतया सह स्थितः तत्रैवेत्यर्थः। राघवप्रियकाम्यया राघवस्य दशरथस्य प्रियेच्छया । राम इत्यध्याहाराजातमिति । वैश्रवण टी.अ.का. सङ्काशं तद्वदनवधिकैश्वर्यसम्पन्नम् । यद्वा यथा वैश्रवणो दाता 'कामेश्वरो वैश्रवणो ददातु” इतिश्रुतेः। तथा परिसरवर्तिनां स्वसौन्दर्यानुभवसर्वस्वं ददाती त्यर्थः। उपविष्टं 'सह पत्न्या विशालाक्ष्या नारायणमुपागमत्' इत्युक्तरीत्या भगवद्ध्यानपरतयावस्थितम् । स्वलंकृतं ध्यानानुकूलाञलियुक्तम् । दिव्य
तं वैश्रवणसङ्काशमुपविष्टं स्वलंकृतम् । ददर्श सूतः पर्य३ सौवर्णे सोत्तरच्छदे ॥ ८॥ वराहरुधिराभेण शुचिना च सुगन्धिना। अनुलिप्तं परायेन चन्दनेन परन्तपम् ॥ ९॥
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया। उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥१०॥ मालालंकृतं वा तं सूतो ददर्श । उत्कर्षकाष्ठाभूमिभूतं रामं निकर्षसीमाभूमिभूतो ददर्श, कोऽयं भाग्यातिशय इति भावः। पर्यङ्के तादृशैश्वर्य्यसामध्यनुरू पापूर्वसंस्थानप्रतिमाविशेषविशिष्टपर्यः । अत एप ह्युत्तरत्र "पर्यङ्कमय्यास्तरणं नानारत्नविभूषितम् । तमपीच्छति बैदेही प्रतिष्ठापयितुं त्वयि ॥" इति सुयज्ञे तत् स्थापयिष्यति । सौवणे उपय्युपविष्टसदृशे । काञ्चनगिरिः कालमेघमिव रामं भासयतीत्यर्थः । सोत्तरच्छदे पुष्पहास सुकुमाररामदेहा नुगुणमृदुतरास्तरणयुक्त, पर्यङ्कविद्योक्तरीत्या मुक्तानुभाव्यदिव्यवेपमहो सूतोऽन्वभूदिति सौशील्यातिशयोक्तिः॥ ८॥ सकचन्दनवनिताः' इत्युक्त भोग्यवस्तुष्वादो दिव्यमाल्ययोगमुक्त्वा दिव्यचन्दनयोगं दर्शयति-वराहरुधिराभेणेति । वराहरुधिरमतिरक्तवर्णमिति प्रसिद्धम् । तत्सदृशेन कुङ्कममित्र तयेतिभावः । सीताकरकमलानुलिप्ततया तत्कान्तिमिश्रत्वमुच्यते । शुचिना सीताकरस्पर्शपूतेन । तत्करस्पर्शकृतशैत्यविशेष समुच्चिनोति चशब्दः। सुगन्धिना 'सर्वगन्धः' इत्यस्य श्रियोप्यविशेषात्तत्करस्पर्शजनितनिवधिकगन्धेन । पराद्धन कान्तानुलिप्ततया श्रेष्ठेन चन्दनेन । अनुलितं पश्चाद लिप्तम् । अनेन सीताङ्गरागकरणानन्तरत्वं गम्यते । परन्तपम् एतादृशसौन्दर्यानुभवविरोधिनिवर्तकम् ॥९॥ अथापाकृतवनितायोगं दर्शयति-स्थिती येति । चापीति निपातः पूर्वोक्तसमुच्चये । पार्थतः स्थितया चन्दनानुलिप्तगात्रं कान्तं कृत्वा वालव्यजनं हस्ते कृत्वा पार्श्वे स्थितया सीतया भूयः उपेतं । वराहेति । पराध्येन श्रेष्ठेन । भूयइत्यस्य विराजमानमिति शेषः । ददर्शति पूर्वेण सम्बन्धः । स्थितयेत्यत्र भूयःशब्दप्रयोकुरयमभिप्रायः-यः केवल एवं सकल लोकहदयानि हरति सः सीतया सहितः किंपुनरिति ॥९॥१०॥
For Private And Personal Use Only