________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥६३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
स इति । रामाधिकरणाः राममधिकृत्य प्रवृत्ताः । हृष्टवत्। स्वार्थे वतिः ॥३०॥३१॥ महाकवाटेत्यादि । महाकवाटविहितं निर्मितमद्दाकवाटम् । वितर्दि शतशोभितं वेदिकाशतशोभितम् । “ स्याद्वितर्दिस्तु वेदिका " इत्यमरः । काञ्चनप्रतिमैकायं काञ्चनप्रतिमाभिः एकाग्रं निरन्तरम् । यद्वा काञ्चनप्रति माभिः एकानि मुख्यानि अग्राणि शिखरायाणि यस्मिन् तत्तथोक्तम् । मणिविद्रुमतोरणं मणिविद्रुमप्रचुरवहिर्द्वारयुक्तम् “तोरणोऽस्त्री वहिर्द्वारम्" इत्यमरः स सुतस्तत्र शुश्राव रामाधिकरणाः कथाः । अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत् ॥ ३० ॥ ततो ददर्श रुचिरं कैलासशिखरप्रभम् । रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ॥ ३१ ॥ महाकवाटाविहितं वितर्दिशतशोभितम् । काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥ ३२ ॥ शारदाभ्रघनप्रख्यं दीप्तमेरुगृहोपमम् । मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ॥ ३३ ॥ मुक्तामणिभिराकीर्ण चन्दनागरुधूपितम् । गन्धान्मनोज्ञान विसृजद्दार्दुरं शिखरं यथा ॥ ३४ ॥ सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् । सुकृतेहामृगाकीर्णे सुकीर्ण भक्तिभिस्तथा ॥ ३५ ॥ मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा । चन्द्रभास्करसङ्काशं कुवेरभवनोपमम् ॥ ३६ ॥ महेन्द्रधामप्रतिमं नानापक्षिसमा कुलम् । मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह ॥ ३७ ॥
॥ ३२ ॥ शारदाभ्रघनप्रख्यं शारदाश्रमूर्तिसदृशम् । “घनो मेघे मूर्तिगुणे त्रिषु मृत्तौ निरन्तरे " इत्यमरः ॥ ३३ ॥ दादुरं मलयसंनिकृष्टश्चन्दनो उत्पत्तिस्थानभूतो गिरिर्दर्दुरः, तत्सम्बन्धि दादुरम् ॥ ३४ ॥ सुकृतेदामृगाकीर्णे द्वारभित्तिस्तम्भादिषु सुष्ठु रचितैः ईहामृगैः वृके आकीर्ण “कोकस्त्वी हामृगो वृकः " इत्यमरः । भक्तिभिः सुकीर्ण सुष्ठु रचितम् ॥ ३५ ॥ तिग्मतेजसा तीव्रतेजसा " तिग्मं तीव्रं खरम् " इत्यमरः । अतिशयिततेजसे। त्यर्थः ॥ ३६ ॥ रामवेश्म ददर्श होते पुनर्वचनस्य सामान्योक्तस्य विशेषणविशेषकथनार्थत्वान्न पुनरुक्तिः । भगवतो वाल्मीकेरियं हि शैली ॥ ३७ ॥ सम्बन्धः ॥ २९ ॥ स इति । रामाधिकरणाः राममधिकृत्य प्रवृत्ताः, अभिषेचनसंयुक्ताः अभिषेचनप्रसङ्गयुक्ताः, हृष्टवत् हृष्टोऽभूत् ॥ २० ॥ ३१ ॥ महाकवाटेति । महाकवाटविहितं महाकवाटयुक्तम् । वितर्दिशतशोभितं वेदिकाशतशोभितम् । काञ्चनप्रतिमैकाग्रम् । काञ्चन्यः प्रतिमा यस्मिन् काञ्चनप्रतिमम्, एकं मुख्यं अमं यस्य तत्तथोक्तम् । मणिविद्रुमतोरणं मणिविदुममचुरवहिर्द्वारयुक्तम् । शारदाश्रघनप्रख्यं शारदाश्राणामिव घनाः सान्द्राः प्रख्य मनाः यस्मिन् तत्तथोक्तम् । मणिभि वरमाल्यानामिति । वरमाल्यानां स्वर्णपुष्पमाल्यानाम् अलङ्कारवर्तिभिः महद्भिः महादीप्तिमद्भिर्मणिभिरलंकृतम् । दर्दुरः मलयसतिकृष्टचन्दनगिरिः। सुकृतेहामृगाकीर्णे
For Private And Personal Use Only
टी.अ.का. स० [१५
॥६३॥