________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ स इति । अत्यासाद्य अतिशयेन प्राप्य । अतिसमीपं प्राप्येत्यर्थः । तिस्करणिमन्तरा जवनिकामात्रं व्यवधानं कृत्वेत्यर्थः । राघवं दशरथम् । पुनस्तोत्र | करणं सूतस्य विज्ञापनात्पूर्वे स्तुतेः कुलधर्मत्वात् ॥२१ - २४ ॥ प्रतिबुद्धय ज्ञात्वेत्यर्थः || २५ ||२६|| कैकेय्युक्तं निद्रापरवशस्य राज्ञोऽनुमतं न वेति न
सोऽत्यासाद्य तु तद्वेश्मतिरस्करणिमन्तरा । आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ॥ २१ ॥ सोमसूर्यो च काकुत्स्थ, शिववैश्रवणावपि । वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ २२ ॥ गता भगवती रात्रिः कृतं कृत्यमिदं तव । बुध्यस्व नृपशार्दूल कुरु कार्य्यमनन्तरम् ॥ २३ ॥ ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप । दर्शनं प्रति कांक्षन्ते प्रतिबुध्यस्व राघव ॥ २४ ॥ स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् । प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥ २५ ॥ राममानय सूतेति यदस्यभिहितोऽनया । किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ॥२६॥ न चैव सम्प्रसुप्तोऽहमान येहाशु राघवम् । इति राजा दशरथः सूतं तत्रान्वशात् पुनः ॥ २७ ॥ स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् । निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥ २८ ॥ प्रपन्नो राजमार्ग च पताकाध्वज शोभितम् । हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ॥ २९ ॥
संशयितव्यमित्याह-न चेत्यादिना ॥ २७ ॥ २८ ॥ प्रपन्न इति । हृष्टः रोमाञ्चाञ्चितगात्रः । प्रमुदितः सञ्जातमानसानन्दः ॥ २९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ष्ठत ॥ २०॥ स इति । अत्यासाद्य अतिशयेन समीपं प्राप्य तिरस्करिणीमन्तरा यवनिकामात्रं व्यवधानं कृत्वा । राघवं दशरथं तुष्टाव ॥ २१ ॥ २२ ॥ कृतकृत्यमिदं तवेति । अनुष्ठेयमनुष्ठितं रामाभिषेकसंभरणं सम्पन्नमित्यर्थः ॥ २३ ॥ निगमो वाणिज्यं तत्सम्बन्धिनो नैगमाः ॥ २४ ॥ स्तुवन्तमिति । प्रतिबुद्धय ज्ञात्वा । इदम ब्रवीत् ॥ २५ ॥ तदेवाह - राममिति । हे सूत राममानयेति अनयाभिहितोऽसि यत् 'अप्रतिषिद्धमनुमत्तम्' इति न्यायेन तस्यैव मदाज्ञात्वात् सेयं ममाज्ञा प्रति हन्यते नानुष्ठीयत इतीदं किंकारणं किंकारणकमित्यर्थः ॥ २६ ॥ न च निद्रापरवशस्य राज्ञ इदमनुमतं वा नवेति संशयितव्यं त्वयेत्याह-न चैवेति । तत्र कैकेयीनिमित्तकायें । अन्वशात् अनुशास्ति स्म २७ ॥ २८ ॥ प्रपत्र इति । हृष्टो रोमाञ्चितगात्रः । मुदितः सञ्जातमानसानन्दः, राजमार्ग विलोकयत्रिति
For Private And Personal Use Only