________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
बा.रा.भू.
.अ.का.
॥६॥
इक्ष्वाकूणामिति । इक्ष्वाकूणां राज्ये अभिषेचनमुद्दिश्य यथा सम्ध्रियेत, वस्तुजातमितिशेषः। तथा जातीयमनघरनादिवस्तुजातं आदाय ते महीपतयः राज वचनात राजपुत्राभिषेचनमुद्दिश्य तत्र राजभवनद्वारे समवेताः महीपतिमपश्यन्तः राज्ञः को नु नः प्रतिवेदयेदित्यनुवन्निति योजना ॥ १३ ॥ १४ ॥
इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् । तथा जातीयमादाय राजपुत्राभिषेचनम् ॥ १३॥ ते राजवचनात्तत्र समवेता महीपतिम् । अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयत् ॥ १४ ॥ न पश्यामश्च राजानमुदितश्च दिवाकरः। यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ॥ १५॥ इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् । अब्रवीत्तानिदं सर्वान सुमन्त्री राजसत्कृतः॥ १६॥रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम् । पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः ॥ १७॥ अयं पृच्छामि वचनात्सुखमायुष्मतामहम् । राज्ञः सम्प्रतिबुद्धस्य यच्चागमनकारणम् ॥ १८॥ इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् । सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह
॥ १९॥ तुष्टावास्य तदा वशं प्रविश्य स विशांपतेः। शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥२०॥ नेति । सजः सम्पन्नसाधन इत्यर्थः ॥१५॥१६॥ राममिति । रामं प्रस्थितः, आनेतुमिति शेषः । यस्मात् पूज्यास्तस्मात् आयुप्मतां युष्माकं वचनात् राज्ञः सुखं पृच्छामि । यच्चागमनकारणं दर्शनायानागमनहेतुः तं च । अयमविलम्बेन पृच्छामि ॥ १७॥ १८॥ पुराणवित् सामन्तराजानु वर्तनरूपपुरातनवृत्तान्तज्ञः। सदासक्तं सर्वदा अनिवारितम् ॥ १९॥ तुष्टावेति । शयनीयं शयनयोग्यं गृहम् ॥२०॥ चतुर्विधवाद्यानि ॥ १२ ॥ इक्ष्वाकूणामिति । इक्ष्वाकूर्णा राज्ये अभिषेचनमुद्दिश्य यथा संनियेत, वस्तुजातमिति शेषः । तथा जातीयं तादृशमनर्धरत्नादिवस्तु जातम् आदाय ते महीपतयः, राजवचनाद्राजपुत्राभिषेचनमुद्दिश्य, तब राजद्वारि समवेताः महीपतिमपश्यन्तः नाराज्ञः को नु प्रतिवेदयेदिति सम्बन्धः ॥१३॥१४॥ नेति । सज्जः सम्पन्नसाधनः॥ १५॥१६॥राममिति । रामं प्रस्थितः, आनेतुमिति शेषः । राज्ञो नियोगेन राममानेतुं यद्यपिपस्थितः तथापि भवन्तोपि राज्ञोरामस्य च पूज्या इति कृत्वा भूयो राज्ञः समीपं गत्वा आयुष्मतां युष्माकं वचनात् संप्रतिबुद्धस्यापि राज्ञः आगमनस्य निर्गमनस्यापि कारणं सुखं पृच्छामि ॥ १७ ॥ १८॥ इतीति । पुराणवित चिरकालकथाभिज्ञः । सदासक्तं सततमनिवारितम् । अथवा असक्तम् अनिरोधम् ॥ १९ ॥ तुष्टावेति । शयनीयं शयनगृहम् । आसाद्य व्यति
सत्य-विशां पते: विशां प्रजानां पतेः पत्युः । ननु कथं पतेरिति “पतिः समास एवं " इति समासे विसंज्ञाविधानात इति चेत् ! न, पतिरित्याख्यातः पतिः । णी टिलोपे “ अच : " इत्यौणादक दः । अयं पतिशब्दः 'पतिः समास एवं ' इत्यत्र न गृह्यते, लाक्षणिकश्चात् ॥ २० ॥
॥२॥
1
For Private And Personal Use Only