________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अत्र भान्तीत्यनुषज्यते॥४॥ गङ्गेति । आहतं, वर्तते इतिशेषः। याश्चान्यास्सरित इत्यत्र ताभ्यश्चेत्यनुकृष्याहृतमिति पूर्वेण सम्बन्धः। ये च हृदाः कूपाः यानि सरांसि । अत्र तु तेभ्य इत्यध्याहारः। आहतं जलमिति पूर्वेण सम्बन्धः॥५॥प्राग्वाहा इति। प्राग्वाहाः पूर्वाभिमुखप्रवाहाः गोदावरीकावेर्यादयः ऊर्ध्ववाहाः उर्वोद्गतप्रवाहा: नैमिषारण्यस्थब्रह्मावर्तरुद्रावर्तादिसरोविशेषाः। ऊर्ध्ववाहाः प्रत्यग्वाहाः इत्यप्याहुः । ऊर्जाद्वहन्तीत्यूद्धवाहाः । निर्झरा
गङ्गायमुनयोः पुण्यात् सङ्गमादाहृतं जलम् । याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ॥५॥ प्राग्वाहा श्चोर्ध्ववाहाश्च तिर्यग्वाहास्समाहिताः। ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ॥६॥ सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः । पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ॥७॥ क्षौद्रं दधि वृतं लाजा दर्भाः सुमनसः पयः। वेश्याश्चैव शुभाचाराःसर्वाभरणभूषिताः ॥ ८॥ चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम् । सजं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥ ९॥ चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डरम् । सज्ज द्युतिकरं श्रीमदभिषेकपुर स्कृतम् ॥१०॥ पाण्डरश्च वृषः सन्जः पाण्डरोऽश्वश्च संस्थितः। प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ॥११॥
अष्टौ च कन्या माङ्गल्या सर्वाभरणभूषिताः ।वादित्राणि च सर्वाणि वन्दिनश्च तथा परे ॥१२॥ इतिकेचित् । तिर्यग्वाहाः दक्षिणोत्तराभिमुखप्रवाहाःगण्डकीशोणभद्रादयः ॥ ६॥ सलाजा इति । क्षीरिभिः अश्वत्थोदुम्बरादिभिः पूर्व जलकुम्भमात्र मुक्तम् । अत्र तद्विशेष इति न पुनरुक्तिः॥७॥ क्षौमिति । क्षौद्रं मधु । सुमनसः कुसुमानि । शुभाचाराः अञ्जनस्रगलकरणादिमङ्गलवेषयुक्ताः ॥८॥चन्द्रांशुविकचप्रख्यं विकचचन्द्रांशुसंदृशम् । विकचत्वं विस्तृतत्वम् । यदा चन्द्रांशव इव विकचा विस्तृता प्रख्या कान्तिर्यस्य तत्तथा । काञ्चनं । काञ्चनदण्डम् । सज गन्धपुष्पादिभिरलंकृतम् ॥९॥ चन्द्रमण्डलेति।अभिषेकपुरस्कृतम् । अभिषेकाय पुरस्कृतम् ॥१०॥पाण्डर इति । प्रसृतःप्रकर्षेण । सवन्मदः । औपवाह्यः राजवाह्यः “राजवाह्यस्त्वौपवाह्यः" इत्यमरः॥११॥ माङ्गल्याः मङ्गलार्हाः । वादित्राणि वीणादिचतुर्विधवाद्यानि ॥ १२॥ याश्चेति ताभ्यः जलमाहृतमिति सम्बन्धः ॥५॥ प्राग्वाहा इति । पर्वतघट्टादिना ऊर्ध्ववाहाः तिर्यग्वाहाः॥६॥ सलाजा इति। क्षीरिभिःक्षीरयुक्तः, पल्लवेरिति शेषः|७| | चन्द्रेति । चन्द्रांशुविकचमख्य चन्द्रांशुवद्विकचा प्रख्या यस्प तथोक्तम् । सज्जमुद्युक्तम्, गन्धपुष्पादिभिरलंकृतमित्यर्थः ॥ ९॥ चन्द्रमण्डलति । अभिषेकपुरस्कृतं प्रक्षालितम् ॥ १० ॥ पाण्डर इति । प्रसुतः प्रकर्षेण स्रवन्मदः, औपवाह्यः राजबाह्यः। "राजवाह्यस्त्वौपवाह्यः" इत्यमरः॥११॥ अष्टौ चेति । वादित्राणि वीणादि
For Private And Personal Use Only