________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
१६पम्यम
शासनादित्युक्तिः राजसम्मतमिति बुद्ध्या ॥ ६४-६६॥ सागरदसङ्काशादिति । सागरहदः समुद्रान्तर्गतहृदः। पुरान्तर्वत्यन्तःपुरत्वात्समुद्रस्थहदोपाटी.अ.का. पम्यम् । जनसम्बाधं जनेर्निबिडम् ॥ ६७॥ तत इति । पुरस्तादो महीपतीन् विलोकयन् पश्चात् पौरान ददर्श । महाधनान् उपहारपाणीन् । उपस्थिर
सागरहदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात् । निष्कम्य जनसम्बाधं ददर्श द्वारमग्रतः॥६७ ॥ ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन् । ददर्श पौरान विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्टितान् ॥ ६८॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशः सर्गः॥ १४ ॥ ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः । उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ ॥ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च । राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः॥२॥ उदिते विमले सूर्ये पुष्ये चाभ्याग तेऽहनि । लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते। अभिषेकाय रामस्य द्विजेन्द्र्रुपकल्पितम् ॥ ३॥ काञ्चना
जलकुम्भाश्च भद्रपीठं स्वलंकृतम् । रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ॥ ४॥ तान् उपस्थानं सदः कुर्वतः॥ ६८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशः सर्गः ॥१४॥ अथ रामाभिषेकसामग्रीसन्निधानमाह पञ्चदशे-ते विति । उष्य उषित्वा । उपस्थानं सदः॥१॥ निगमस्य पुरस्य “ निगमो निश्चये वेदे पुरे पथि वणिक्पथे" इति वैजयन्ती ॥२॥ उदित इति । उपकल्पितम्, अभिषेकार्थद्रव्यजातमिति शेषः॥३॥उपकल्पितमेव प्रपञ्चयति-काञ्चना इत्यादि । मायाविन्या तयोक्तविश्वासात् राजशासनात राज्ञः सम्मतमिति बुद्धचा ॥ ६४-६८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकात्यायाम् अयोध्या allकाण्डव्याख्यायो चतुर्दशः सर्गः ॥ १४ ॥ राजाज्ञया राजद्वारे मिलितानां राज्ञां परस्परसम्भाषणमाह-ते वित्यारभ्य अपश्यन्तोऽब्रुवन् को नु राज्ञो नामतिबोधMInsan येदित्यन्तेन प्रन्थसन्दर्भेण । तो रजनीं रामाभिषेकोयुक्तरजनीम् । उष्य उषित्वा । द्वारे पौराः सङ्गताः॥१॥२॥ उदित इति । अहनि पुष्ये पुण्यनक्षत्रे अभ्यागते सति रामस्य जन्म प्राप्ते स्थिते कर्कटके लग्ने च अहन्यभ्यागते सति रामस्थाभिषेकाय द्विजेन्द्र उपकल्पितम्, उपकरणजातमिति शेषः ॥३॥४॥
For Private And Personal Use Only