________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
पागन्तरम् ॥५४-५७॥ इतीति । सान्तपूर्व सामपूर्व "साम सान्त्वम्" इत्यमरः। अर्थवदितिनिर्देशः। प्रातःकालप्रबोधस्य सर्वविजयहेतुत्वात् ॥१८॥ ततः स राजेत्यादि । सुतं प्रति सन्नहर्पः नष्टहर्षः। भूयो निकृन्तसि कैकेयीवाक्यकृत्तानि मर्माणि भूयोप्यनुचितकालस्तुतिभिर्निकृन्तसीत्यर्थः । अत्र
यथा ह्यपालाः पशवो यथा सेना ह्यनायका । यथा चन्द्रं विनारात्रिर्यथा गावो विना वृषम् ॥५६॥ एवं हि भवता राष्ट्र यत्र राजा न दृश्यते ॥५७ ॥ इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् । अभ्यकीर्यत शोकेन भूय एव महीपतिः॥५८॥ ततः स राजा तं सूतं सन्नहर्षःसुतं प्रति । शोकरक्तेक्षणः श्रीमान् उदीक्ष्योवाच धार्मिकः । वाक्यैस्तु खलु ममाणि मम भूयो निकृन्तसि ॥ ५९॥ सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् । प्रगृहीता अलिः किञ्चित्तस्मादेशादपाक्रमत् ॥६०॥ यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः। तदासुमन्त्रमन्त्रज्ञा कैकेयी प्रत्युवाच ह॥६॥ सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः। प्रजागरपरिश्रान्तो निद्राया वशमेयिवान् ॥२॥ तद्गच्छ त्वरितं सूत राजपुन यशस्विनम् । राममानय भद्र ते नात्र कायो विचारणा ॥६३॥ स मन्यमानः कल्याणं हृदयेन ननन्द च । निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥६४ ॥ सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया। व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥६५॥ इति सूतो मतिं कृत्वा हर्षेण महता वृतः। निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥६६॥ इतिशब्दोऽध्याहार्यः ॥ ५९॥ करुणं दीनवाक्यम् ॥ ६॥ यदेति । मन्त्रज्ञा राजनीत्यनुसारेण स्वकायोंचितविचारशेत्यर्थः ॥६॥ सुमन्वेति । रजनी मिति अत्यन्तसंयोगे द्वितीया । प्रजागरो निद्राक्षयः। विचारणेत्यनन्तरमितिशब्दोध्याहर्तव्यः। इति प्रत्युवाचेत्यन्वयः ॥ ६२ ॥ ६३ ॥ स इति। राज भविता । लुट् (भविता इति पाठः ) यत्र राष्ट्र। राजा भवान् न दृश्यते अतः सन्निधेहीति भावः ॥ ५७ ॥ इतीति । सान्त्वपूर्वम् अर्थवदिव अर्थवदेव सार्थकमेव ।। ५८ ॥ तत इति । शोकरक्तेक्षणः रोदनेन रक्ताक्षः । भूयो निकृन्तसीति । कैकेयीकरवचःकृत्तमर्माणं पुनरप्यधिकं स्तुतिवाक्यैनिकुन्तसीति ॥ ५९॥ सुमन्त्र इति । अपाक्रमत , भीत इति शेषः ॥ ६॥ यदेति । दैन्यं सत्यपाशवन्धनजं कैकेयीविषयकम् । मन्त्रज्ञा स्वकार्यवक्तव्यविचारज्ञा ॥ ६॥ अत एव मिथ्याप्याह-सुमन्त्रेति । रामहर्षसमुत्सुकः रामाभिषेकसनुत्सुकः ॥ ६२ ॥ ६३ ॥ स इति । स मन्यमानः कल्याणमिति नात्र कार्या विचारणा इतिच
For Private And Personal Use Only