SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander हरिश्रेष्ठः अश्वोत्तमः ॥३८॥३९॥ व्याघ्रतनुः व्याघ्रचर्मेत्ययः । नगमो वणिजः । “नगमो वणिजो वणिक् ” इत्यमरः ॥ ४० ॥११॥ समुदिते सम्यग्ब्यक्ते ॥ ४२ ॥४३॥ पूर्वोदितम् अयं सर्वदा अनिवार्य इति राज्ञा पूर्वमुक्तम् ॥ ४४ ॥ स इति । अजज्ञिवान् अज्ञात सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः । सर्ववादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः ॥३९॥ आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः । पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥४०॥ एते चान्ये च बहवः प्रीयमाणाः प्रिय म्वदाः । अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥४१॥ त्वरयस्व महाराज यथा समुदितेऽहनि । पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥४२॥ इति तस्य वचः श्रुत्वा मूतपुत्रो महात्मनः । स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम्॥४३॥ तंतु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् । न शेकुरभिसंरोद्धं राज्ञः प्रियचिकीर्षवः॥४४॥ स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् । वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥४५॥ ततः सूतो यथाकालं पार्थिवस्य निवेशने । सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ ४६॥ यथा नन्दति तेजस्वी सागरो भास्क रोदये। प्रीतः प्रीतेन मनसा तथानन्दधनः स्वतः ॥ ४७॥ वान् ॥४५॥ तत इति । यथाकालं प्रातःकालाईम् ॥ ४६॥ यथेति । भास्करोदयेपि समुद्रवृद्धिरस्त्येव । यद्वा भासः करोतीति व्युत्पत्त्या हिरण्मयपात्रम् । नरसंयुक्तं वाहनं शिविकादि । केसरी प्रशस्तकेशरः । चतुर्दष्ट्रः सनातचतुर्दन्तः । हरि श्रेष्ठः अश्वोत्तमः । व्याघ्रतनुः व्याघ्रचर्म । हेमदामपिनद्धः हेमदामबद्धः । नैगमाः श्रेणीमुख्याः, अध्यापका वा । गणे: स्ववीथिस्थ जनैः ॥ ३४-४१॥ त्वरयस्व महाराजमिति । समुदिते श्रेयस्करे अहनि यथा रामो राज्य मवाप्नुयात् तथा दशरथं त्वरयस्वेति सम्बन्धः ॥ ४२ ॥४३॥ तमिति । पूर्वोदितम् अयं सदा न निवारणीय इति राज्ञा पूर्वमेयोक्तम् ॥ ४४ ॥ स इति । तामवस्था यथोक्तरूपाम् अतिघोराम् । अजज्ञिवान अज्ञातवान् । परमतुष्टाभिः परमतोषहेतुभिः ॥४५॥ तत इति । यथाकालं प्रभूतकालाहम् ॥ ४६॥ यथेति । भास्करोदये भासः करोतीति व्युत्पत्या भास्करः पूर्णचन्द्रः। तस्योदये प्रीतेन प्रतिफलितचन्द्रतेजसा प्रीतेन मनसा प्रीतः सागरो यथा नन्दति तथा आनन्दधनः आनन्दपूर्णः सन् स्वतो नन्द तथा आनन्दधन इत्यत्र नन्द आनन्दघन इति तन्त्रेण पदच्छेदः ॥ ४७ ।। For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy