________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
॥५९
त्सुकां समुत्सुकजनाम् ॥२८-३०॥ तदिति । तं जनं पौरादिजनम् । व्यतिचक्रामेत्यनेनान्तःपुरद्वारवेदिकां प्राप्त इति गम्यते । विवेश वेदिकाया लाटी.अ.का. मिति शेषः॥३१॥ स इति । विनिष्कान्तम् स्वगृहादिति शेपः । द्वारे अन्तःपुरद्वारे । प्रियदर्शनमित्यनेनाभिषेकार्थमात्मानमलंकृत्यागत इत्युक्तम् । ॥३२॥ तमिति । क्षिप्रमाचक्ष्वेति वसिष्ठः प्रोवाचेतिसम्बन्धः ॥३३॥ इम इत्यादि । काञ्चनाः काञ्चनमयाः। गणोदकघटाः गणोदकपूर्णपटाः । अत्र।
चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् । तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ २९ ॥ ददर्शान्तःपुरं श्रेष्ठं नाना द्विजगणायुतम् । पौरजानपदाकीर्ण ब्राह्मणैरुपशोभितम् । यज्ञविद्भिः सुसम्पूर्ण सदस्यैः परमद्विजैः ॥ ३०॥ तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् । वसिष्ठः परमप्रीतः परमर्षिविवेश च ॥३१॥ स त्वपश्यदिनिष्कान्तं सुमन्त्रं नाम सारथिम्।द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥३२॥ तमुवाच महातेजाः सूतपुत्रं विशारदम् । वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥३३॥ इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः। औदुम्बरं भद्रपीठमभिषे कार्थमाहृतम् ॥ ३४॥ सर्वबीजानि गन्धाश्च रत्नानि विविधानि च । क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥३५॥ अष्टौ च कन्यारुचिरा मत्तश्च वरवारणः । चतुरश्वो रथः श्रीमान निस्त्रिंशो धनुरुत्तमम् ॥ ३६॥ वाहनं नरसंयुक्तं छत्रं च शशिसनिभम् । श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ ३७ ॥ हेमदामपिनद्धश्च ककुमान पाण्डरो वृषः। केसरी च चतुर्दष्ट्रो हरिश्रेष्ठो महाबलः ॥ ३८॥ आहतमित्येतद्वचनव्यत्ययेन सम्बध्यते । इमे इति छेदमपि । सागरेभ्य आहता इमे उदकघटा इत्यध्याहारेण योज्यम् ॥३४॥क्षौद्रं मधु ॥३५॥'चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्' इत्यत्र-तु इति गायत्र्याश्चतुर्थाक्षरम् । निस्त्रिंशः खड्गः ॥ ३६ ।।भृङ्गारः कनकालुका ॥३७॥ केसरी प्रशस्तकेसरः।। इमे गणोदकघटा इति । काश्चना: जलपूर्णकाधनघटाः । क्षौद्रम् मधु । अब गायत्र्याश्चतुर्थाक्षरम् । चतुरश्च इत्यस्य श्लोकस्य द्वितीयाक्षरेण तु इत्यनने संग्रहाति"चतुरश्वो रथः श्रीमान निखिशो धनुरुत्तमम् । वाहनं नरसंयुक्त छवं च शशिसन्निभम् । " इति । निखिंशः खगः । भुङ्गारः कनकालुका । धनूरकुसुमसदृश
For Private And Personal Use Only