________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
सम्भवात् ॥ १९॥ तत इति । रोषमूञ्छिता क्रोधेन व्याप्ता ॥२०॥ किमिदमिति । गररुजोपमं विषजनितव्याधिसदृशम् । अङ्गजोपममितिपाठेसर्वाङ्गव्याप्तमहाव्याधिसदृशमित्यर्थः । अङ्गेति सम्बोधनं वा । अविष्टम् अक्लेशं यथा भवति तथा आनाययितुमिति सम्बन्धः ॥२१॥२२॥स इति । ततः पापसमाचारा कैकेयी पार्थिवं पुनः। उवाच परुषं वाक्यं वाक्यज्ञा रोषमूञ्छिता ॥२०॥ किमिदं भाषसे राजन् वाक्यं गररुजोपमम् । आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥२१॥ स्थाप्य राज्ये मम सुतं कृत्वा राम वनेचरम् । निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २२॥ स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः । राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ २३ ॥ धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना। ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २४ ॥ ततः प्रभातां रजनीमुदिते च दिवाकरे । पुण्ये नक्षत्रयोगे च मुहूर्ते च समा हिते ॥ २५॥ वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा । उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ २६ ॥ सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् । विचित्रकुसुमाकीर्णी नानास्रग्भिर्विराजिताम् ॥ २७ ॥ संहृष्टमनुजो
पेतां समृद्धविपणापणाम् । महोत्सवसमाकीणा राघवार्थे समुत्सुकाम् ॥ २८॥ बनुन्नः व्यथितः । प्रतोदेन तोत्रेण । अभीक्ष्णं पुनःपुनः । “पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः" इत्यमरः ॥२३॥ धर्मबन्धेनेति । धर्मबन्धेन धर्मपाशेन ।
बद्धोस्मीन्यनेन रामविवासनं मनागनुज्ञातम् । द्रष्टुमिच्छामि गमनात्पूर्वमितिशेषः ॥२४॥ तत इत्यादि परमदिजेरित्यन्तमेकं वाक्यम् । प्रभात रजनी प्रभातायां रजन्यां समाहिते सन्निहिते सति ॥२५॥ प्रविवेश पुरोत्तमम् इत्यनेन वसिष्ठो नगरबाह्यसरवा सानाद्यनुष्ठानं कृत्वा पुरी प्रविष्टवानित्यवगम्यते ॥२६॥२७॥ समृद्धविपणापणां समृद्धाः विपणाः विक्रय्याः येषां ते समृदविपणा आपणाः निषद्याः यस्यां ताम् । समु शर्वरी पुण्या निरन्तररामचिन्तासमेतत्वात् ॥ १९ ॥२०॥ किमिदमिति । अङ्गजोपमं देहजनितव्याधिसदृशम् ॥ २१ ॥ २२ ॥ स इति । नुन्नः व्याधितः, प्रतोदेन तोषेण ॥२३॥ धर्मबन्धेनेति । चेतना धीः ॥ २४ ॥ तत इति । प्रभातायां रजन्यां प्रविवेश । पुरोत्तममित्यनेन वसिष्ठः सरप्या रानं कृत्वा प्रविष्ट बानित्यवगम्यते ॥ २५ ॥ २६ ॥ सिक्तेत्यादि । समृद्धविपणापणां समृद्धाः क्रयविक्रयपदार्था येषु ते समृद्ध विपणा ताहशा आपणा यस्यां ताम् ॥ २७-३३ ॥
॥
For Private And Personal Use Only