________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ka
सत्यमिति । सत्यमेव एकपदं ब्रह्म एकं मुख्यम् । “ एके मुख्यान्यकेवलाः" इत्यमरः । पद्यत इति पदं परमप्राप्यम्, ब्रह्मेत्यर्थः । यदा एकं पदं प्रणवरूपं वाचकं यस्य तत्तथा "ओमित्येकाक्षरं ब्रह्म" इति स्मृतेः। सत्ये धर्मः प्रतिष्ठितः सत्यमेव धर्मस्य परा काष्ठेत्यर्थः । अक्षया वेदाश्च सत्य मेव प्राधान्येन प्रतिपादयन्तीत्यर्थः। परं प्रयोजनं सत्येनेवाप्यते ॥ ७॥ सत्यमिति । अत्रादौ तस्मादित्युपस्कार्यम् । धृता स्थिरा । वरदः सर्वेषां सर्वप
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः । सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ ७॥ सत्यं समनुवर्तस्व यदि धर्मे धृतामतिः। स वरःसफलो मेऽस्तु वरदोह्यसि सत्तम ॥८॥ धर्मस्येहाभिकामार्थ मम चैवाभ्यचोदनात् । प्रवाजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥९॥ समयं च ममाघेमं यदि त्वं न करिष्यसि। अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ १०॥ एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया । नाशकत् पाशमुन्मोक्तुं बलि रिन्द्रकृतं यथा ॥११॥ उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् । स धुर्यो वै परिस्पन्दन युगचक्रान्तरं यथा ॥१२॥ विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः । कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १३ ॥ वरप्रदः॥ ८॥ धर्मस्येति । अभिकामार्थ प्रीत्यर्थम् । धर्माभिवृद्धसमितियावत् । मम प्रियाया इतिशेषः । समनस्कत्वज्ञापनाय त्रिरित्युक्तम् ॥९॥ समयमिति । समयं रामविवासनं । परित्यक्ता उपेक्षिता॥१०॥ एवमिति । एवं त्रिवीमीत्येवम् । पाशं सत्यपाशम् । उन्मोक्तुं मोचयितुम् । बलिः महाबलिः।
इन्द्रकृतम् इन्द्रद्वारोपेन्द्रकृतं पाशं पत्रयदानप्रतिज्ञारूपं पदचयादानानिगलं वा ॥११॥ उद्दान्तहृदय इति । स राजा युगचक्रयोरन्तरं परिस्पन्दन ke गच्छन् । धुर्यों यथा अनहानिव । उद्भ्रान्तहृदयो विवर्णवदनश्चाभवत् ॥ १२ ॥ विह्वलाभ्यामिति । विह्वलाभ्यां क्षुब्धाभ्याम् । अपश्यन्निव अन्ध इव
सत्यमिति । सत्यम् एकपदम् एकपदरूपं ब्रह्म, प्रणव इति यावत् । परं परब्रह्म ॥७॥ ८॥ धर्मस्येति । धर्मस्य लोकसिद्धिप्रयोजकस्य अभिकामार्थ पालनार्थ क्रियमाणात ममाभिचोदनात प्रेरणात पुत्र रामं प्रव्राजय एवं त्वामहं खलु वित्रिवारं ब्रवीमि ॥९॥ समयमिति । समयं रामविवासनम् । परित्यक्ता निराकुता ॥१०॥ एवमिति । पाशं सत्यपाशम् । उन्मोकुं प्रमोचयितुं । बलि: इन्द्रकृतम् उपेन्द्रवामनकृतं पदत्रयप्रतिश्रवरूपम् ॥ ११॥ उद्धान्तहृदय इति । सः दशरथः युगचक्रान्तरं परिस्पन्दन गुगचक्रयोरन्तरं प्रविशन धुयः पालीवदं इव उद्धान्तहृदयः पिवणेवदनश्चाभवत् ॥ १२॥ विद्यलाभ्यामिति । संस्तभ्य विद्दलं चित्तमिति शेषः ॥१३॥
For Private And Personal Use Only