________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
॥५॥
अथ रामविवासननिर्धारणं दर्शयति चतुर्दशे-पुत्रेत्यादि॥१॥ पापमिति । संश्रवं दास्यामीति प्रतिज्ञाम् । संश्रुत्य कृत्वेत्यर्थः । पाकं पचतीतिवन्निटी .अ.का. देशः। पापं प्रतिज्ञाताकरणरूपं पापं कृत्वैव क्षितितले सन्नः अवसन्नः सन् शेपे । किमिदं स्थित्यां मर्यादायां सत्यपरिपालनरूपायां " मर्यादा धारणा स्थितिः" इत्यमरः । स्थातुमर्हसि ॥२॥ इदमेव युक्तमिति दर्शयति-आहुरित्यादिना । सत्यरूपं धर्ममाश्रित्य हि मया प्रचोदितः ॥३॥
पुत्रशोकादितं पापा विसंज्ञं पतितं भुवि । विवेष्टमानमुद्रीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥ पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् । शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥२॥ आहुः सत्यं हि परमं धर्म धर्मविदो जनाः । सत्यमाश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥३॥ संश्रुत्य शैव्यः श्येनाय स्वां तनुं जगतीपतिः।प्रदाय पक्षिणे राजन् जगामगतिमुत्तमाम् ॥४॥ तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। याचमाने स्वके नेत्रे उद्धृत्या
विमना ददौ ॥५॥ सरितां तु पतिः स्वल्पां मर्यादा सत्यमन्वितः। सत्यानुरोधात्समये वेलां स्वां नातिवर्तते ॥६॥ लाप्राणसङ्कटे कथं सत्यं पालनीयमित्यत्राह-संश्रुत्येत्यादिना ॥४॥ तथेति । याचमाने ब्राह्मणे । अविमनाः सुप्रसन्नमनाः सन् नेत्रे ददौ । तस्मा
इतिशेषः॥५॥ सरितामिति । सरितां पतिः समुद्रः। मर्यादा सत्यमन्वितः बेला नातिवर्तत इति मर्यादारूपं सत्यं प्राप्तः सन् । सत्यानुरोधात स्वकृतसत्यानुवर्तनात् । समये सङ्कल्पितकाले । स्वां वेलां स्वल्पामपि नातिवर्तत इतिसम्बन्धः॥ ६॥ अथ कैकेयी मन्निमित्तं राजा वा म्रियतां तनिमित्तमहं वा म्रिय इति सर्वथा निश्चित्याह-पुत्रेति । सा पापा कैकेयी ॥१॥ पापमिति । मम संश्रवं वरदानप्रतिज्ञा संश्रुत्य अङ्गीकृत्य, तदकरणरूपं पापं कुत्वैव सन्नः विषण्णः सन शेषे किमिदं न किमपि प्रयोजनम्, अतः स्थियां सत्यपरिपालनमर्यादायां स्थातुं त्वमर्हसि ॥२॥ आहुरिति । सत्यं सत्यरूपं धर्मम् आश्रित्य उद्दिश्य मया प्रचोदितः प्रबोधितः ॥३॥ ननु सत्यपरिपालने प्राणसंशयो जायत इत्याशङ्कय प्राणादपि सत्यमेव रक्षणीयमिति सदृष्टान्तमाह-संश्रुत्येत्यादि लोकद्धयेन ॥ ४ ॥ ५ ॥ सरितामिति । सरिता पतिः सत्यमन्वितः सत्यं प्राप्तः सन् सत्यानुरोधात् स्वकृतसत्यो ॥५॥ ल्लङ्घनभषात् । स्वरूपां सुलपयां मर्यादा स्वावधिभूताम् । स्वां वेलाम् । समये वृद्धिकालेपि नातिवर्तते ॥६॥
सत्य-मदर्थ राजा लियते चेग्मियता प्रत्याः | आरब्धकार्य तु नस्याममिति निर्णयाह-पुत्रेत्यादि । विष्टमानग, विशम्दोऽत्र रिप्रिपमिः पादाचित्र नज] । अचेष्टमानम् ॥ १॥
For Private And Personal Use Only