________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शून्य इति । शून्ये निर्जने प्रदेशे । इदं रामाभिषेचनम् , न समुदाहृतं खलु किंतु सर्वजनसन्निधौ समुदाहृतमित्यर्थः । यद्वा शून्येन दीनेन मयेत्यर्थः । २२-२४॥ विशुद्धभावस्येति । ताम्रक्षणस्य, दुःखातिशयेनेतिशेषः । अश्रुकलस्य अश्रुपूर्णस्य । कलिः कामधेनुः । विचित्र प्रसादनभर्त्सनसहित शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् । कुरु साधु प्रसादं मे बाले सहृदया ह्यसि ॥ २२ ॥ प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम् । लभतामसितापाने यशः परमवाप्नुहि ॥ २३॥ मम रामस्य लोकस्य गुरूणां भरतस्य च । प्रियमेतद्गुरुश्रोणि कुरु चारुमुखक्षणे ॥ २४ ॥ विशुद्धभावस्य हि दुष्टभावा ताम्रक्षणस्याश्रुकलस्य राज्ञः । श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ॥ २५॥ ततः स राजा पुनरेव मूञ्छितः प्रियामदुष्टां प्रतिकूलभाषिणीम् । समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः॥२६॥ इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः । विबोध्यमानःप्रतिबोधनं तदा निवारयामास स राजसत्तमः ॥ २७॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशः सर्गः॥ १३॥ त्वात् ॥ २५॥ २६ ॥ इतीति । प्रतिबोधनं शङ्खपटहवीणादिकं प्रतिबोधनसाधनम् । यद्वा वैतालिकैः क्रियमाणं प्रतिबोधनम् ॥२७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डे त्रयोदशः सर्गः ॥१३॥ गतायुषः अल्पावशेषमतीतायुषः ॥ २१॥ शन्य इति । शन्ये निर्जनप्रदेशे इदं रामाभिषेचनं न समुदाहृतं खलु, किन्तु राजसभायामुदाहृतम् । अथवा शून्येन । १. प्रणष्टसर्वाहम्भावेन मया इदमुदाहृतमितिवार्थः ॥ २२ ॥ तदेव दर्शयन्नाह-प्रसीदेति । त्वद्दत्तं लभता त्वया वरबलात् गृहीतमेव राज्यम्, रामप्रीत्यर्थ रामाय देही त्यर्थः ॥ २३॥ २४ ॥ विशुद्धेति । अश्रुकलस्य अश्रुपूर्णस्य ॥ २५ ॥ तत इति । तद्रात्रे प्राक नित्यं प्रियाम् अदुष्टो पतिव्रता तत्काले देवात् प्रतिकूलभाषिणी तां समीक्ष्य पुत्रस्य विवासनं प्रति त्रियमाणं तद्वरं च समीक्ष्य पर्यालोच्य चिरपरिचितमत्वात्तो धिकतु प्रयासलब्धं पुत्रं च त्यक्तम् अशक्नुवन् कर्तव्यमूढो मूच्छितः, क्षितौ विसंज्ञः पपातेत्यर्थः ॥ २६॥ इतीति । प्रतिबोधनं बोधनसाधकमङ्गलगीतादिकम् ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रयोदशः सर्गः ॥ १३॥
For Private And Personal Use Only