________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प.रा.भ. ॥५६॥
टी.अ.का. स०१३
मम प्रियं रामं विप्रियेणानभिमतदण्डकारण्यगमनेन । किं किमर्थं योजयसे ॥ १३॥ अकीर्तिरित्यर्धम् । भविष्यतीतिशेषः ॥ १४ ॥ तथेति । तस्य विलपतः तस्मिन् विलपति सतीत्यर्थः ॥ १५॥ सा त्रियामेति । अत्रियामा यामत्रयवत्त्वं विहायातिदीर्धेत्यर्थः ॥ १६॥ तथेति । आर्तवत् महा
अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ॥ १४॥ तथा विलपतस्तस्य परिभ्रमितचेतसः। अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्त्तत ॥१५॥ सा त्रियामा तथातस्य चन्द्रमण्डलमण्डिता । राज्ञो विलपमानस्य न व्यभासत शर्वरी ॥१६॥ तथैवोणं विनिश्वस्य वृद्धो दशरथो नृपः। विललापात्तवद्दुःखं गगनासक्तलोचनः ॥१७॥ न प्रभातं त्वये च्छामि निशे नक्षत्रभूषणे। क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः ॥ १८॥ अथवा गम्यतां शीघ्रं नाह मिच्छामि निघृणाम् । नृशंसा कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ॥ १९ ॥ एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः। प्रसादयामास पुनः कैकेयी चेदमब्रवीत् ॥२०॥ साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः।
प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः॥२१॥ रोगादिना पीडित इव । दुःखं विललाप । शृण्वतां यथा दुःखं भवति तथा विललापेत्यर्थः ॥ १७॥ नेति । प्रभातं प्रभातत्वम् । भावे निष्ठा । अत्र प्रक रणे भर्त्सनप्रसादनाभ्यां पुनःपुनः क्रियमाणाभ्यां धर्ममपि त्यक्तुं न शक्नोमि न पुत्रमपीति गम्यते ॥ १८॥ अथवेति । निघृणां निर्दयां प्रत्युत नृशंसा
राम् ॥ १९॥२०॥ साधवत्तस्यति । स्वगतस्य त्वदेकशरणस्येत्यर्थः । गतायुषः अल्पावशेषमतीतायुष इत्यर्थः ॥२१॥ तथेति । या राज्ञः स्वनिवेशप्रवेशकालात्पूर्व सूर्योऽस्तमगमत रजनी चाभ्यवर्तत । सा त्रियामा रजनी विलपतस्तस्य राज्ञः न व्यभासत न प्रकाशत, विलापेनैव रात्रिकालो व्यतीत इत्यर्थः । अथ सा शर्वरी व्यभासत विभाता चेत्यावर्त्य योजना ॥ १५ ॥ तथेति । आर्तवत महारोगादिना पीडित इव दुःखं शृण्वतां यथा दुःख भवति तथा विललापत्यर्थः ॥१६॥ १७॥ अथ दुम्खवशाद्राच्या अव्युष्टि प्रार्थयते-न प्रभातमिति । भावे निष्ठा । त्वया न प्रभातमिति । त्वत्कर्तृकमप्रभात मिति यावत । मे मह्यम् प्रभाते सति रामविवासनं भविष्यतीतिभयादिति भावः ॥ १८ ॥ अथवा गम्यतां शीघ्रमिति । राज्येति शेषः । नीदर्शनं राज्यामेव भवति तदत्यये प्रजा आयान्ति राज्ञः सकाशम् अतोऽस्या दर्शनपरिहारो भविष्यतीत्याशयः ॥ १९ ॥ २०॥ साध्विति । त्वद्गतस्य सत्यवशगत्वात्वदधीनस्य
सत्य-यो यामा यस्याः सा त्रियामा । आद्यन्तयोरयामयोथेष्टाकालत्वेन दिनप्रायत्वात् । यद्वा त्रीन् धमादीन् यापयति निरवकाशीकरोति, कामप्रधानत्वात् । अन्तर्मावितष्पर्थाद्याते: “ अर्तिस्तुमुहमृधति शुभायावाप दियक्षिनीभ्यो मन्" इति मन् ॥ १५॥
॥५५॥
For Private And Personal Use Only