________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रत्यादेशादभिहितं धिक्कारपूर्वमभिहितं वाक्यं कथं धारयिष्ये सहिष्ये । मूढः स्त्रीहेतोः कथं गुणवत्पुत्रं त्यक्तवानसीत्यभिहितं श्रुत्वा कथमात्मानं धार शयिष्ये। तथा च रामप्रवासने इह परत्र च मम सौख्यं नास्तीत्यर्थः ॥६॥ ननु सत्यप्रतिज्ञत्वनिर्वाहार्थ रामः प्रत्राजित इति वक्तव्यमित्यत्राह-कैकेय्या इति। मयेत्यनन्तरमितिकरणं द्रष्टव्यम् । तदसत्यं भविष्यति'वस्वाहमभिपेक्ष्यामि यौवराज्ये परन्तप' इतिरामोद्देशेनोक्तं वाक्यमसत्यं भविष्यतीत्यर्थः ॥७॥
कैकेय्याःप्रियकामन रामःप्रवाजितो मया । यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥७॥अपुत्रेण मया पुत्रः श्रमेण महता महान् । रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥८॥ शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः। कथं कमलपत्राक्षो मया रामो विवास्यते ॥९॥ कथमिन्दीवरश्याम दीर्घबाहुं महाबलम् । अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥१०॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च । दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥ ११ ॥ यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् । अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ १२॥ नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम् । कि विप्रियेण कैकेयि प्रियं योजयसे मम ॥ १३॥ अपरित्यागे हेत्वन्तराणि दर्शयति-अपुत्रेणेत्यादि ॥ ८-१० ॥ सुखानामिति । दुःखैरिति षष्ठयर्थे तृतीया ॥ ११॥ यदीति । अदुःखाईस्य रामस्य दुःखमकृत्वा मम संक्रमणं यदि भवेत् ततस्तदा सुखमवाप्नुयाम् । संक्रमणं तृणजलौकान्यायेन देहादेहान्तरप्राप्तिः। पञ्चत्वमितियावत् ॥१२॥ नृशंस इति । रभिहित रामस्य कुशलं प्रत्यादेशात प्रतिवेधात् । ल्यब्लोपे पञ्चमी । कथं बत धारयिष्ये सहिप्पे, इह रामस्य कुशलं प्रतिषिध्य तत्र देवतैः पृष्टं कथं सहिष्य इत्यर्थः। अथवा स्वर्गेऽपि रामस्य कुशलं प्रति देवतैः प्रत्यादेशात प्रत्यादेशं धिक्कारं कृत्वाभिहितं वाक्यम् , कथं बत धारयिष्ये सहिष्ये । बतेति खेदे ॥६॥ ननु सत्यपाशात प्रत्यादिष्टवानस्मीत्युत्तरं ब्रूहीत्यत्राह-कैकेय्या इति । कैकेय्याः प्रतिश्रुतार्थप्रदानेन मया रामः प्रवाजितः तत्सत्यं यदि ब्रवीमि तर्हि तद्राममभिषेक्ष्यामीति वचनम् असत्यं भविष्यतीत्यर्थः ॥ ७-१०॥ सुखानामिति । दुःखैरनुचितस्येति षष्ठयर्थे तृतीया ॥११॥ सर्वथा रामस्य दुःखाकरणमेव स्वहितमित्याह-यदीति । अदुःखाहस्य रामस्य दुःखमकृत्वा इह सुखितस्य मम कालान्तरे संक्रमणं लोकान्तरगमनं यदि भवेत ततः तार्ह स्वर्गेपि सुखमवाप्नुयामित्यन्वयः ॥ १२ ॥ नृशंस इति । किमर्थ विनियेण अनभिमतदण्डकारण्यगमनेन ॥ १३॥ १४ ॥
For Private And Personal Use Only