________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भ. वां जीवयितुं नोत्सहे ते पादौ स्पृशामि प्रसीदेत्यनवस्थितवचनानि भाषमाणः। प्रसारितावित्यनेनानादर उक्तः । असंस्पृश्येत्यनेन पिस्पृक्षायामेव टी.अ.कां. ॥५५॥ मूर्छा जातेति गम्यते ॥ ११५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वादशः सर्गः ॥१२॥
स०१३ न ते करिष्यामि वचः' इत्युक्त्वापि धर्मपाशबद्धतया पश्चात्तप्तः पुनस्तां सान्त्वयति त्रयोदशे-अतदईमित्यादि श्लोकद्वयमेकान्वयम् । अतदई तादृश अतदर्ह महाराजं शयानमतथोचितम् । ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ १॥ अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी । पुनराकारयामास तमेव वरमङ्गना ॥२॥ त्वं कत्थसे महाराज सत्यवादी दृढवतः । मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥३॥ एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा। प्रत्युवाच ततः क्रुद्धो मुहूत्त विह्वलन्निव ॥४॥ मृते मयि गते रामे वनं मनुजपुङ्गवे। हन्तानार्ये ममामित्रे सकामा सुखिनी भव ॥५॥ स्वर्गेपि
खलु रामस्य कुशलं दैवतैरहम् । प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥६॥ दुःखानहम् । अतथोचितम् अधःशयनानुचितम् । अनर्थरूपा पापरूपा । असिद्धार्था अनिष्पन्नप्रयोजना । अभीता लोकापवादभीतिरहिता । भय
दर्शिनी। दशरथस्येति शेषः । यद्रा अभयदर्शिनी दशरथस्य भयमपश्यतीत्यर्थः। तमेव वरं पूर्वदत्तमेव वरमुद्दिश्य महाराजम् आकारयामास सम्बोध Mयामास । यदा दातव्यत्वेन ग्राहयामासेत्यर्थः । वस्तुतस्त्वेकवचनस्वारस्यात् वरं श्रेष्ठं दशरथं स्वाभिमतकथनायाह्वयामासेत्यर्थः ॥ १॥२॥ त्वमिति । विधारयितुम् ऋणत्वेन धारयितुंच्यावयितुंवा विशेषेण धारयितुमादातुमितिवार्थः॥३॥ विह्वलन् मूर्च्छन् ॥४॥५॥स्वर्ग इति । रामस्य कुशलं प्रति देवतैः प्रसारितो देव्याश्चरणौ असंस्पृश्य आतुरो यथा आतुर इव तथा पपात, दारुणं पपातेत्यर्थः । अनेन चित्तवैवश्यं योतितम् ॥ ११५॥ इति श्रीमहेश्वरतीर्थ || विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्वादशः सर्गः ॥ १२ ॥ अथ सत्यपाशबद्धत्वेन न ते करिष्यामि वच इति दृढं वक्तुमशनु । वन तो पुनरपि प्रसादयति-अतदर्हमिति । अतदई स्त्रीप्रणामानहम् । अतथोचितं पूर्वमननुभूतताहग्व्यसनम्, शयानं भूमौ पतितम् ॥ १॥ अनर्थरूपेति। अनर्थरूपा पापरूपा, असिद्धार्था अनिष्पन्नप्रयोजना, अभीता जनापवादादभीता, अभयदर्शिनी-दशरथस्य प्राप्त भयमगणयन्ती । भयदर्शिनीति छेदे रामात् ॥५५॥ भरतस्य भयदर्शिनी । तमेव वरं पूर्वदत्तवरमेवोद्दिश्य महाराजमाकारयामास सम्बोधयामास ॥ २॥ तदेवाह-त्वमिति । सत्यवादी दृढव्रत इति कत्यसे स्वात्मानं लाधसे । विधारयितुं विशेषेण धारयितुम् ऋणत्वेन धारयितुम् ॥ ३-५ ॥ रामप्रवासनदुःखेन मृत्वा स्वर्ग गतस्यापि मे सुखं नास्तीत्याह-स्वर्ग इति । स्वर्गेपि दैवतै
For Private And Personal Use Only