________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
न किञ्चिदिति। रामः अहितमप्रियं च किञ्चिद्रचो नाह, परुषाणि भापितुं न वेत्ति । ज्ञानपूर्वकत्वात् भाषणस्य कुतस्तत्प्रसक्तिरिति भावः। न केवलं परुषावेदनं प्रत्युताभिरामवादिनि सर्वप्रियभापिणि । गुणैर्नित्यं संमते रामे कथं नु दोषान प्रवाजनहेतून् ब्रवीपि ॥१११॥ प्रताम्यति । प्रताम्य ग्लानि | भज । ताम्यतेर्लोण मध्यमपुरुषेकवचनम् । प्रज्वल कुपिता भव । प्रणश्य नष्टा भव । सहस्रशः स्फुटिता सती महीं व्रजवा, भृगोः पत वेत्यर्थः । केकय
न किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् । कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान गुणनित्यसम्मते ॥19॥ प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज । न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि ॥११२॥क्षुरोपमां नित्यमसत्प्रियंवदा प्रदुष्टभावां स्वकुलोपघातिनीम् । न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ ११३॥ न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतः कुतो रतिः । ममाहितं देवि न कर्तुमर्हसि स्टशामि पादावपि ते प्रसीद मे॥ ११४ ॥स भूमि पालो विलपन्ननाथवत स्त्रिया गृहीतो हृदयेऽतिमात्रया। पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुर
स्तथा ॥ १५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशः सर्गः॥ १२॥ राजानां पांसनि दूषणि ॥१२॥ क्षुरोपमामिति ।क्षरोपमा तद्वत्क्रूराम् । असत्प्रियंवदा मिथ्या प्रियवादिनीम् । प्रदुष्टभावां प्रकर्षेण दुष्टहृदयाम् । अमनो रमामिति पदच्छेदः। सबन्धनं समूलं प्राणरूपमूलसहितम् “प्राणवन्धनं हि सौम्यमनः" इतिश्रुतेः। सदिन्धनमितिपाठे-हृदयमेव सदिन्धनम् । दिधक्षमाणां दग्धुमिच्छन्तीम्। त्वां जीवितुं जीवयितुम् । न विषहे नोत्सहे ॥१३॥ नेति । रतिस्त्वद्विषयेति शेषः। यदेवमत आह ममाहितमिति । आत्मवतः जीवत इत्यर्थः॥१४॥ स इति। अतिमात्रया अमर्यादया स्त्रिया। हृदये गृहीतः तदधीनहृदय इत्यर्थः। भूमिपालोपितां निग्रहीतुमसमर्थ इत्यर्थः। अनाथवद्विलपन । न किञ्चिदिति । गुणनित्यसंमते गुणानां नित्यसम्मते ॥१११॥ प्रताम्येति । सहस्रशो वा स्फुटिता महीं व्रज तथापि न ते वचः करिष्यामति सम्बन्धः ॥ ११२ ॥ Misरोपमामिति । असत्प्रियंवदा मिथ्या प्रियवादिनीम् , अमनोरमामिति छेदः । सबन्धनं हृदयं "प्राणबन्धनं हि सौम्यमनः" इति श्रुतेः । त्वां जीवितुं नोत्सह । इति सम्बन्धः ॥ ११३ ॥ ११४ ॥ स भूमिपाल इति । अतिमात्रया अतिक्रान्तमर्यादया स्त्रिया हृदये मर्मणि गृहीतः प्रसारितौ प्रणामपरिहारबुद्धचा अन्यत्र
सत्य-प्रसारिती प्रणाम कुर्यादित्यन्यत्र प्रसारिती ॥ ११५॥
For Private And Personal Use Only