________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
गार्हस्थ्यावस्थायाम् ।। ८५ ॥ नालमिति । सः पुत्रः वनं प्रवजेत्युक्तः सन् द्वितीयं वचनं परिहारवचनं मां प्रति भाषितुं नालम्, किन्तु बाढमित्येव वक्ष्यति। बाठमित्यङ्गीकारोक्तिः॥८६॥ यदीति । मे मया बनङ्गच्छति चोदितो रामः प्रतिकूलं वनं प्रत्यगमनं यदि कुर्यात्तदा मे प्रियं स्यात् । वत्सस्तु तन्त्र करिष्यति ॥ ८७ ॥ शुद्धभावः शुद्धहृदयः। मे भावं हृदयं न ज्ञास्यति । मां शुद्धतया जानन मम वचनहृदयं न ज्ञास्यतीतिभावः।
नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् । सवनं प्रव्रजेत्युक्तोबाढमित्येव वक्ष्यति॥८६॥ यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः। प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥८७॥ शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः। स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८८॥ राघवे हि वनं प्राप्ते सर्वलोकस्य धिकृतम् । मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥८९॥मृतेमयि गते रामे वनं मनुजपुङ्गवे। इष्टे ममजने शेषे किं पापं प्रतिपत्स्यसे॥९॥ कौसल्यां मां च रामं च पुत्रौ च यदि हास्यति । दुःखान्यसहती देवी मामेवानुमरिष्यति ॥९१॥ कौसल्यां च सुमित्रां च मां च पुत्रैत्रिभिः सह । प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ ९२ ॥ मया रामेण च त्यक्तं
शाश्वत सत्कृतं गुणेः । इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ ९३॥ अतो बाढमित्येव वक्ष्यतीति सम्बन्धः॥८८॥ राघव इति । सर्वलोकस्य सर्वजनस्य "लोकस्तुभुवने जने" इत्यमरः। धिकृतं धिकरणम् । अक्षमणीयं क्षन्तुमशक्यम्, किन्तु मृत्युर्मा यमक्षयं यमगृहं नयिष्यति ॥८९॥ मृत इति । शेषे कौसल्यादौ । किं पापं कमन्यायं प्रतिपत्स्यसे चिन्तयिष्यसि ।। ९०॥ कौसल्यामिति । पुत्री लक्ष्मणशत्रुनौ । देवी सुमित्रा ॥९१॥ कौसल्यामिति । अत्र नरकशब्देन दुःखं लक्ष्यते ॥ ९२॥ मयेति । आकुलं क्षुभितं । नालमिति । द्वितीयं वचनं परिहाररूपं प्रतिभाषितुं नोत्सहते स वाढमित्येव वक्ष्यति ॥८६॥ यदीति । वनं गच्छेति मया भाषिते प्रतिकूलं यदि कुर्यात्तहि मे प्रियं ।। स्यात् । वत्सः श्रीरामस्तु प्रतिकूलं न करिष्यति ॥८७ ॥ शुद्धभाव इति । शुद्धभावः राघवः में भावं वनं गच्छेत्येवंरूपम् ॥ ८८॥ राघव इति । सर्वलोकस्य धिकृतं धिकारम् । अक्षमणीयं सोदुमशक्तम् ॥ ८९॥ मृत इति । इष्टे मन्मतानुसारिणि जने किंपापं कीदृशं दुःखम् , मनोवागगोचरमिति यावत् । प्रतिपत्स्यसे, करिष्यसि ॥ ९० ॥ कौसल्यामित्यादि। पुत्री चेति लक्ष्मणशत्रुघ्नी, देवी सुमित्रा, कौसल्या मां च रामं च यदि हास्यति तदा दुःखान्यसहती मामेवानुमरिष्यति। रामवियोगेन कौसल्यामरणस्य सम्भावितत्वालक्ष्मणस्य रामनियतसहगमनाच्छबुन्नस्य देवादद्य भरतेन सहगमनाच्च ताभ्यां मया च रहिता सा मामेवानुमरि प्यतीत्यर्थः॥९१॥ कौसल्यामिति । नरके दुःखे ॥ ९२॥ मयति । आकुलं क्षुभितं यथा तथा पालयिष्यसि ।।९३ ॥९४ ॥
For Private And Personal Use Only