________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
का.रा.भू. ७ पुत्रविक्रायिकं पुत्रमूल्येन स्त्रीसुखक्रेतारं माम् आर्यास्सन्तः अयमनार्यः पुत्रविक्रयपापकादिति धिक्करिष्यन्ति ॥ ७९ ॥ एतादृशदुःखस्याननुभूतत्वाद्र विपादातिशयेन विस्मयते-अहो इति । कृच्छ्रं कष्टं " स्यात् कष्टं कृच्छ्रम्" इत्यमरः । एतादृशदुःखकृच्छ्रे कदाचिदपि मया न प्राप्ते इत्यर्थः । किञ्च यस्मिन् वरप्रदानविषये । तव वाचः क्षमे एवंविधं दुःखं पुराकृतम् । अशुभमिवाशुभफलमिव प्राप्तम् ॥ ८० ॥ सौख्यार्थ कृतं त्वद्रक्षणं स्वनाशाय परिणत
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव । दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ ८० ॥ चिरं खलु मया पापे त्वं पापेनाभिरक्षिता । अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ॥ ८१ ॥ रममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये । वालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ ८२ ॥ मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना । तं तु मां जीव लोकोऽयं नूनमाक्रोष्टुमर्हति ॥ ८३ ॥ बालिशो वत कामात्मा राजा दशरथो भृशम् । स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्था पयिष्यति ॥ ८४ ॥ व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः । भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ ८५ ॥
Acharya Shri Kailassagarsuri Gyanmandin
मिति खिद्यति - चिरमित्यादिना ॥ ८१ ॥ रममाण इति । नाभिलक्षये किंत्वस्पृशमिति योजना ॥ ८२ ॥ मयेति । अपितृकः पितृकृतरक्षणादिरहित इत्यर्थः । आसीदिति शेषः । तं तथाविधं माम् । आक्रोष्टुम् आक्रोशं कर्तुम् ||८३॥ आकोशप्रकारमाह- बालिश इति । बालिशः मूर्खः “ मूर्खवैधेय बालिशाः " इत्यमरः ॥ ८४ ॥ व्रतैरिति । व्रतैः काण्डवतैः । ब्रह्मचर्यैः मधुमांसवर्जनादिब्रह्म चारिधर्मैः । गुरुभिः गुरुकृत शिक्षादिभिः । भोगकाले
अहो दुःखमिति । कृच्छ्रं कष्टम्, यत्र यस्मिन् वरदानविषये "चीराजिनजटाधारी रामो भवतु तापसः " इत्येतादृशीस्तव वाचः यतः क्षमे, अतः पुरा कृतमशुभमेव अशुभफलमेव एवंविधम् अपरिहार्यत्वेन अवश्यानुभाभ्यं दुःखं प्राप्तमिति सम्बन्धः ॥ ८० ॥ सौख्यार्थ कृतं त्वद्रक्षणं स्वविनाशाय परिणतमिति खिद्यते चिरंखल्वित्यादिना । उपसम्पन्ना कण्ठलग्नेत्यर्थः ॥ ८१ ॥ बाल इति । वालो हस्तेन कृष्णसर्प यथा स्पृशति तथा त्वामपि अज्ञानाद हस्तेन अस्पृशम् अज्ञाना नाकपाणिग्रहणं कृतदानस्मीति भावः ॥ ८२॥ तं त्वित्यादि । महात्मा पुत्रो मया जीवतापि अपितृकः पितुरहितः कृतः, ततः लोको माम् आक्रोष्टुं निन्दितुम् अर्हति ॥ ८३ ॥ आक्रोशप्रकारमेवाह बालिश इति ॥ ८४ ॥ व्रतैरिति । उपकर्शितः प्रापितकार्थः ॥ ८५ ॥
For Private And Personal Use Only
टी.अ.का.
स० १२
॥५२॥