________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥५०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र हेतुमाह बालाया इति । इदानीं प्रौढतायां तत् शीलं विपरीतवत् विपरीतत्ववत् । भावप्रधानो निर्देशः । स्वार्थे वतिर्वा ॥ ५८ ॥ कुत इति । कुतो निमित्तात् ॥ ५९ ॥ एवंविधमित्यस्यैव विवरणम् - राष्ट्र इति । वने राघवमिति आसीनमित्यनुषङ्गः । एतेन भावेन भरताभिषेकरूपेण । विरम मा प्रव तिष्ठाः । अनृतेन अनृतपदवाच्येन एतेन वा रामविवासनरूपेण भावेन वा विरमेति सम्बन्धः ॥ ६० ॥ नृशंस इति । नृशंसे निर्दये । तत्र हेतुः पाप
कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ ५९ ॥ राष्ट्रे भरतमासीनं वृणीषे राघवं वने । विरमैतेन भावेन त्वमेतेना नृतेन वा । यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ॥ ६० ॥ नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि । किन्न दुःखमलीक वा मयि रामे च पश्यसि ॥ ६१॥ न कथहिते रामाद्धरतो राज्यमावसेत् । रामादपि हितं मन्ये धर्मतो बलवत्तरम् ॥ ६२ ॥ कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते। मुखवर्ण विवर्णतं यथैवेन्दुमुपयुतम् ॥ ६३ ॥ सङ्कल्प इति । रामविवासनरूपपापसङ्कल्पे । तत्रापि हेतुः क्षुद्र इति । अल्पमतिके । तत्रापि हेतुः दुष्कृतकारिणीति । जन्मान्तरे पापकारिणीत्यर्थः । दुःखं दुःखनिमित्तम् । अलीकं अप्रियम् । “अलीकं त्वप्रियेऽनृते " इत्यमरः ||६१||६२ ॥ कथमिति । वनं गच्छेति मया भाषिते सति विवर्णे विपरीतवर्णत्व मिति । एतत् इदानीमुत्पन्नं शीलव्यसनं सद्वृत्तिभ्रंशनम् पुरा नाभिजानामि बालायाः ते तत्र तत् शीलं विपरीतवत विपरीतं लक्षये जानामि ॥ ५८ ॥ कुतो वति । कुतो निमित्तात्ते भयं जातं येन भगनैवंविधं वरं वृणीषे ॥ ५९ ॥ वरमेवाह - राष्ट्र इति । भरतं राष्ट्र राज्ये आसीनं सन्तम् बने राघवम् आसीनं सन्तं वृणीषे विरमेति । भर्तुर्दशरथस्य नम लोकस्य जनस्य भरतस्य न यदि प्रियं कार्य तर्हि एतेन भरताभिषकरूपेण भावेन अभिप्रायेण अनृतेन पापजनकेन एतेन भावेन रामाभिषेकविघातविषयकेणाभिप्रायेण च विरम मा प्रवर्तस्व । वाशब्दस्समुच्चये । भरताभिषेकविषयां रामाभिषेकविधातविषयां च बुद्धिं निवर्त |येति भावः ॥ ६०॥ नृशंस इति । दुःखं दुःखसाधनम् । अलीकम् अपराधम् ॥ ६१ ॥ व्यर्थखेदं मक्के शनमित्याह--न कथञ्चिदिति । रामादृते रामं विना भरतः कथञ्चिदपि राज्यं नावसेत नाक्रामेत, अनेन यथाभागशः चतुर्णामेव राज्यमनुमन्यस्वत्युक्तम् । यद्वा भरतस्याभिषेके रामस्य केवलवृद्धस्य मम समीपेऽवस्थानं वाऽनुमन्यस्व, नान्यथा त्वत्प्रयोजनमित्युपदेशः । नावसेदित्यत्र हेतुमाह रामादिति । हि यस्मात् भरतं रामादपि धर्मेण बलवत्तरम् अतिशयितधर्मवन्तं मन्य इति योजना|| ६२॥ कथ
सत्य० - अनृतेन कतनाम हरिविस्डेन, मावेन अभिप्रायेण ॥ ६० ॥ वनं गच्छेति ममा माषिते उक्तं सत्यपि । स्वं कथं वक्ष्यति, तस्य वदतिप्रियवादिति भावः । उपतमिन्दुं यथा तमिव विवर्ण मुख वर्ण आदर्शादी कयं यामीति सम्बन्धः ॥ ६२ ॥
For Private And Personal Use Only
टी. अ.का.
स० [१२
॥५०॥