________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शेषः॥१८-५०॥ श्रुत्वेति । वनवासैश्वर्यरूपं वृतं वरमितिसम्बन्धः ॥५१॥ नाभ्यभाषतति । प्रेक्षतानिमिष इति निरन्तरचिन्तावशात् क्रोधादा निर्निमेषप्रेक्षणम् ॥५२॥ तामिति । दुःखशोकमयीमिति अनुचितभरताभिषेकात् दुःखम्, रामविवासनाच्छोकः ॥५३ ।। स इति । शपथं कृतं
एतावदुक्त्वा वचनं कैकेयी विरराम ह । विलपन्तं च राजानं न प्रतिव्याजहार सा ॥५०॥ श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् । रामस्य च वने वासमैश्वर्यं भरतस्य च ॥५१॥ नाभ्यभाषत कैकेयीं मुहूर्त व्याकुलेन्द्रियः । प्रेक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥५२॥ तां हि वचसमां वाचमाकर्ण्य हृदयाप्रियाम् । दुःखशोकमयीं घोरां राजा नसुखितोऽभवत् ॥५३॥ स देव्या व्यवसायं च घोरं च शपथं कृतम् । ध्यात्वा रामति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥ ५४॥ नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः । हृततेजा यथा सो बभूव जगतीपतिः॥५५॥ दीनया तु गिरा राजा इति होवाच कैकयीम् ॥५६॥ अनर्थमिममर्थाभं केन त्वमुपदर्शिता। भूतोपहतचित्तेव अवन्ती मां न लज्जसे ॥५७॥ शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा । बालायास्तत्त्विदानी
ते लक्षये विपरीतवत् ॥ ५८॥ स्वेनेति शेषः। निश्वस्येति अशक्यप्रतीकारत्वादिति भावः ॥५४॥ नष्टचित्त इति । नष्टचित्तः कलुपितहृदयः । उन्मत्तः उन्मादी । विपरीतः सनिपातादिना विपरीतप्रकृतिः। आतुरः व्याधितः । " व्याधितोऽपटुरातुरः” इत्यमरः । हततेजाः मन्त्रापहतवीर्यः॥५५॥ दीनयति ॥५६॥ अनर्थमित्यादि । उपदार्शता बोधिता ॥५७ ॥ शीलव्यसनं सदृत्तभ्रंशम्, "व्यसनं विपदि भ्रंशे" इत्यमरः। नाभिजानामि किन्तु शीलमेवाभिजानामि। शपथं करोमि ।। ४९ ॥ ५० ॥ श्रुत्वेति । परमशोभनमित्यत्र अशोभनमिति छेदः । कैकेयी प्रेक्षत, कोपादिति शेषः ॥ ५१-५३ ॥ स इति । घोरं व्यवसायं । कतं शपथम् । स्वेनेति शेषः। निश्वस्येति अशक्यप्रतिक्रियत्वात् ॥५४॥ नष्टचित्त इति । विपरीतः सन्निपातादिना विपरीतः। आतुरः व्याधिग्रस्तः। हततजाः || मन्त्रहतवीर्यः तथा बभूव ॥५५॥५६॥ अनर्थमिति । उपदर्शिता बोधिता, भूतोपहतचित्तेव पिशाचाक्रान्तहृदयेव मा प्रति बुवन्ती सतीन लजसे॥५॥ शीलभ्यसन
For Private And Personal Use Only