SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुत्य तन राजचक्षुपा स्वचक्षुः प्रतिसन्धाने अर्थिते स्वचक्षुषी दत्त्वा उत्तमां गतिं जगाम ॥ ४३ ॥ किंच सागरः समुद्रो देवैः प्रार्थितो वेलानतिलङ्घनाय टी.अ.कॉ. तत्तेभ्यः प्रतिश्रुत्याऽद्यापि वेलां नातिवर्त्तते । तस्मात्त्वमपि पूर्वशेव्यादिवृत्तान्तमनुस्मरन् समयं प्रतिज्ञाम् । अनृतं मिथ्याभूतं माकार्षीः ॥ ४४ ॥ एवं न्यायमुक्त्वा तदनुमोदमानं प्रत्याह-सत्वमिति ॥ ४५ ॥ स्वसिद्धान्तमाह- भवत्विति । मदुक्तो रामविवासनपूर्वको भरताभिषेकः धर्मों वा अधर्मो वा स० [१२ सागरः समयं कृत्वा न वेलामतिवर्त्तते । समयं मानृतं कार्षीः पूर्वं वृत्तमनुस्मरन् ॥ ४४ ॥ स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च । सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ ४५ ॥ भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् । यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ ४६ ॥ अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः । पश्यतस्तै मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥ एकाहमपि पश्येयं यद्यहं राममातरम् । अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥ भरतेनात्मना चाहं शपे ते मनुजाधिप । यथा नान्येन तुप्येयमृते रामविवासनात् ॥ ४९ ॥ भवतु' रामं प्रत्राजयारण्यम्' इत्यादिमदुक्तं वचनं सत्यं समीचीनं वा अनृतं असमीचीनं वा भवतु, त्वया यन्मह्यं संश्रुतं शपथपूर्वकं दास्यामीति प्रतिज्ञातं तस्य व्यतिक्रमोऽन्यथाभावो नास्तीति योजना ॥ ४६ ॥ व्यतिक्रमे किं करिष्यसीत्यत्राह - अहमिति ॥ ४७ ॥ कौसल्यातोऽप्यधिकं भोगं तव दास्यामीत्यत्र तत्प्राधान्यं न सह इत्याह-एकाहमिति । अञ्जलिं प्रतिगृह्णन्तीं राजमातृत्वेन सर्वेषामिति शेषः । श्रेयः तदा तदपेक्षयेति यद्रा आहारकांक्षिणः श्येनस्य शरणार्थिनः कपोतस्य विरोधे, अन्यत समानम् । अलर्कश्च राजर्षिः । ब्राह्मणाय याचमानाय वरं प्रतिश्रुत्य तेन राजन ! तब चक्षुषा मम चक्षुः प्रतिसन्धातव्यम्' इति पृष्ठे स्वचक्षुर्दतवान् । सागरः देवैः प्रार्थितो वेलानतिलङ्घनसमयं तेभ्यः प्रतिश्रुत्य न वेलामतिवर्तते । यद्येवमतः किमत आह-समयमिति । पूर्ववृत्तं शैय्यादीनां वृत्तमनुस्मरन त्वं च समयं वरौ दास्यामीति सङ्केतमनृतं माकार्षीः ॥ ४३-४५ ।। सिद्धान्तमाह भवत्विति मदुक्तरामविवासपूर्वक भरताभिषेकः धर्मो वा समीचीनं वा अथर्मो वा असमीचीनं वा भवतु त्वया यन्मह्यं संश्रुतं शपथपूर्वकं दास्यामीति, तस्य व्यतिक्रमः अन्यथाभावो नास्तीति योजना ॥ ४६ ॥ विपक्षे बाधकमाह-अहं हीति ॥ ४७ ॥ अञ्जलिं प्रतिगृद्धन्तीमिति । राममातृत्वेन सर्वलोकानामिति शेषः ॥ ४८ ॥ भरतेनेति । हे मनुजाधिप ! रामविवासनाहते अन्येन रत्नादिना यथाहं न तुप्येयं तथा आत्मना प्राणभूतेन भरतेन ते सब समीप इति शेषः । शषे For Private And Personal Use Only ॥४९॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy