________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
समिति कदाचिद्धर्मप्रसङ्गे वक्ष्यन्ति । तत्र तदा । किं प्रतिवक्ष्यसि कीदृशं प्रत्युत्तरं दास्यसि ॥४०॥ यस्या इति । प्रसादे सति जीवामि प्रसादेन जीवामी त्यर्थः । प्रसादमेवाह या चेति ायच मां मूच्छितदशायां रणादन्यत्रापनीयाभ्यपालयत् । शिशिरोपचारादिना ररक्षेत्यर्थः। तस्याःमया मिथ्या असत्यं कृतमिति वक्ष्यसि । किमिटिकाकुः । तस्मादद्य प्रतिज्ञा निर्वहेति भावः ॥४१॥ किल्बिपत्वमिति । किल्बिषत्वम् अपयशोरूपमालिन्यम् । नरेन्द्राणा
यस्याः प्रसादे जावामि या च मामभ्यपालयत् । तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥४१॥ किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप । यो दत्त्वा वरमचैव पुनरन्यानि भाषसे॥४२॥
शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ । अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥४३॥ मित्यनेन सजातीयेष्वेकेन कृतमपयशः सर्वानपि स्पृशति सर्वे राजान एवंविधा इति । अन्यानि वरदानविरुद्धानि ॥ ४२ ॥ दुष्करस्यापि प्रति ज्ञातस्य कर्त्तव्यत्वं पूर्वचक्रवर्त्यनुष्ठानेन दर्शयति-शैन्य इति । शैव्यो राजा श्येनकपोतीये श्येनकपोतयोर्विरोधे प्राप्ते । पक्षिणे श्येनाय । स्वमांसं कपोतमांसप्रतिनिधित्वेन ददौ । इत्थं किल पौराणिकी गाथा-इन्द्राग्री श्येनकपोतो भूत्वा शैन्यौदार्य परीक्षितुं भक्षकभक्ष्यभावमापन्नो शेव्यसमीप मागतो । तत्र कपोतोऽभयार्थी शैव्याङ्कमाविवेश । तस्मै च सोऽभयं ददौ । ततः श्येनेन मद्भक्षणं दैवविहितं त्यजेत्युक्ते नाहं त्यजेयम्, अपितु तत्प्रतिनिधिमांसमेव ददामीत्युक्ते तार्ह त्वन्मासमेव मे प्रयच्छ नान्यदित्युक्ते स्वमांसमपि सर्वे दत्तवानिति । अलर्कश्च राजर्षिाह्मणायान्धाय वरं प्रति धर्मज्ञेति व्यङ्गयोक्तिः ॥ ३९ ॥ ४० ॥ न किमपि प्रतिवचनं शक्यमित्याह-यस्या इति । यस्याः कैकेय्याः, प्रयत्ने युद्धे मूर्षिछतदशाया रणादन्यत्र स्थापनयनादिप्रयत्ने सति जीवामि, या मामभ्यपालयत शीतोपचारादिना ररक्ष । तस्याः कैकेय्याः । प्रतिज्ञातं वचनमिति शेषः । मिथ्या असत्यं कृतमिति वक्ष्यसीति सोपहासं वाक्यम्॥ ४१ ॥ किल्विपत्वमिति । नरेन्द्राणी किल्विषत्वम् अपयशोरूपं मालिन्यं करिष्यसि, यस्त्वमद्येव वरं दत्वा पुनरन्यानि भाषसे मिथ्यावादेन| त्वया राजकुलं सर्वमयशोप्रस्तं जातमित्याशयः ॥ ४२ ॥ दुष्करस्यापि प्रतिश्रुतस्य परिपालनं दर्शयति-शैब्य इत्यादि । त्वदश्यः शैव्यः। सत्यपरिपालनाय
दत्ताभयपोतरक्षणाय, तन्मांसार्षिने इयेनाय स्वांसमेव प्रतिनिधित्वेन ददौ, न तु कपोतमिति श्येनकपोतीये आख्याने श्रूयते । तथाहि-इन्द्रानी श्येन का कपोतरूपी भूत्वा शैब्यौदार्यजिज्ञासया भक्षकभक्ष्यभावमापनी शैव्यसमीपं गतो, ततः कपोतः शैव्याई विवेश, तस्मै च सोभयं ददौ । ततः श्येनेन मद्भक्षणं कपोतं त्यजेत्युक्ते-नाहं त्यजेयम् अपितु तत्प्रनिधिमांसमेव ददामीत्युक्ते, तार्ह त्वन्मासमेव प्रयच्छनि प्रतिपादिते स्वमासमेव सर्व दत्तवानिति कथा।
For Private And Personal Use Only