________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जा.रा.भू.
॥४८॥
स०१२
पर्थः । तपस्विनः शोचनीयावस्थस्य । लालप्यमानस्य पुनःपुनः कथनशीलस्य । मम मयीत्यर्थः। सम्बन्धसामान्ये षष्ठी ॥३४॥ पृथिव्यामिति । सागटी .अ.कां. रान्तायामित्यनेन कृत्स्नायामिति लभ्यते । यत्किचिद्धनम् अधिगम्यते लभ्यते तत्सर्वं तव तुभ्यं दास्यामि। मन्युः रामविषयकोधः॥३५॥ अनलिमिति। काम करोमि, अलिपूर्वकं पादवन्दनं करोमीत्यर्थः । शरणं रक्षित् । अधर्मः प्रतिज्ञाभङ्गरूपः, रामाभिषेकमनुजानीहीत्यर्थः ॥३६॥ इतीत्यादिशोकर।
पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते । तत्सर्व तव दास्यामि मा च त्वां मन्युराविशेत् ॥ ३५॥ अञ्जलिं कुर्मि कैकेयि पादौ चापि स्टशामि ते। शरणं भवरामस्य माधों मामिह स्टशेत् ॥ ३६ ॥ इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् । घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ ३७॥ पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः। प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः॥ ३८॥ यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे। धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ ३९॥ यदा समेता बहवस्त्वया राजर्षयः सह । कथयिष्यन्ति धर्मज्ञा
स्तत्र किं प्रतिवक्ष्यसि ॥४०॥ यमेकान्वयम् । अचेतनं मूच्छितम्। घूर्णमानम् इतस्ततो विवर्तमानम् । शोकेन भाविरामविरहस्मरणदुःखेन । समभिप्लुतं सम्यगभिव्याप्तम्॥३७॥पारं अन्तम्, रामाभिषेकमिति यावत् । अथ कृत्स्नम् । इति वचोविशेषणम् । "आरम्भप्रश्रकात्स्न्येष्वथोअथ" इत्यमरः। रौद्रा भयङ्करविकारा। रामाभिषेक निवर्तनविषये यद्यद्वक्तव्यं तत्सर्वमुवाचेत्यर्थः ॥ ३८॥ धार्मिकत्वं स्वीयमितिशेषः ॥ ३९ ॥ कथयिष्यन्ति उपकारिण्याः कैकेय्याः किं प्रत्युपकृत दीनस्य दीनं लालप्यमानस्य अलपतः मम कारुण्यं दयां कर्तुमर्हसि ॥ ३४ ॥ पृथिव्यामिति । भूमौ द्रव्यजातयस्तत्सर्व तव दास्यामि त्वं मन्यु मा विश ॥३५॥ अनलिमिति । कुर्मि करोमि । रामस्य शरणं रक्षित्री भव, अधर्मः सत्यव्यतिक्रमरूपः । इह रामाभिषेकरूपकार्यविषये । मां मास्पृशेत् मास्पृशतु यथा अधर्मप्राप्तिन
॥ इतीति । अचेतनं मूर्ध्वागतम, घूर्णमानं पूर्णमानशरीरम् ॥३७॥ पारमिति । शोकार्णवस्य, आशु शीघ्र, पारं निस्तारमा प्रलपन्तं प्रार्थयन्तम् , रौद्रतरम् अतिदारुणं वचः प्रत्युवाचेति द्वयोरन्वयः ॥ ३८ ॥ यदीति श्लोकद्रयमेकं वाक्यम् । पृथिव्यां यदा राजर्षयः त्वया सह समेता भवन्ति तत्समाजे त्वं त्वदीयं धार्मिकत्वं कथयिष्यासि तेच मद्विषयवरदानादिप्रसङ्गं यदा कथयिष्यन्ति तदा तान् प्रति किं प्रतिवक्ष्यसि किमुत्तरं दास्यसि ?
For Private And Personal Use Only