SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie मवाप्तवानित्पतिझमत्र ज्ञेयम् ॥२९॥ सत्यादीनि च न कादाचित्कानीत्याइ-सत्यमिति। तपःप्रभृति गुणपदकं पूर्वश्चोकेऽर्थसिद्धमन्यते-दानं परलोक प्रयोजनम् । तपः शास्त्रविहितभोजननिवृत्त्यादिरूपः। त्यागः ऐहिकप्रयोजनः प्रीत्यर्थः । मित्रता सर्वसुहत्त्वम् । शौचं नानजन्यशुद्धिः आर्जवं पर। चित्तानुवर्तित्वम् । विया तत्त्वज्ञानम् । गुरुशुश्रूषा गुरोःशुभूषा पादसंवाइनादिपरिचर्या ॥ ३०॥ तस्मिन्निति । आर्जवसम्पन्न इति दानादिसम्पत्तरप्युप सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् । विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥३०॥ तस्मिन्नार्जव सम्पन्ने देवि देवोपमे कथम् । पापमाशंससे रामे महर्षिसमतेजसि ॥ ३१॥न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः । स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥ ३२ ॥ क्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता । अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ ३३ ॥ मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः। दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ ३४॥ लक्षणम् । पापं विवासनरूपम् । आशंससे प्रार्थयसि ॥३१॥ नेति । लोकस्य जनमात्रस्य। प्रियवादिनः प्रियवदनशीलस्य, किमुतास्माकमिति भावः। शरामस्य सम्बन्धि अप्रियं विषासनविषयं वाक्यं न स्मरामि स्मर्तुमपि नशनोमीत्यर्थः । सः तदस्मर्ता अहम् । त्वत्कृते परुषोक्तिमत्स्त्रीकृते । रामं सर्वस्य । रमयितारम् । प्रियं रमयितृत्वाभावेपि पुत्रत्वेन प्रियं प्रति कथमप्रियं वक्ष्यामि ॥ ३२॥ क्षमेति । यस्मिन् क्षमादयो वर्तन्ते तमृते मम का गतिः कोश वा रक्षकः तादृशं रक्षकं कथं त्यक्ष्यामीति भावः॥ ३३॥ ममेति । गतान्तस्य गतःप्राप्तः अन्तश्चरमकालो येन । तस्य वृद्धत्वेपि प्राप्तचरमकालस्ये सत्यमिति । सत्य सत्यवचनम्, दान सत्पात्रदानम्, त्यागः प्रत्यक्षः ऐहिकप्रयोजनः, देवतोदेशेन द्रव्यत्यागो वा, मित्रता सत्सु मैनी, शौचं बाह्याभ्यन्तरशुद्धि, आर्जवं कपटरादित्यम् । एतानि सर्वाणि राघवे ध्रुवाणि ॥ ३०॥ तस्मिन्निति । आर्जवसम्पन्ने कपटरूपदोपवर्जिते महर्षिवच्छमादिगुणसम्पन्ने । कथं पापं वनवासात्म कम् । आवशंससे प्रार्थयसे ॥३१॥न स्मरामीति । लोकस्य प्रियवादिनो रामस्य । अप्रियम् विवासनविषयकं वाक्यम् । न स्मरामि स्मर्तुमपि न शक्रोमि, सोऽहंप्रियं तं राम त्वत्कृते अभियं वनं गच्छति वाक्यरूपं कथं वक्ष्यामीति योजना । यद्वा अप्रियं वाक्यामिति रामवकृत रामविषयकं वा न स्मरामि । कुतःश प्रियवादिन इति, त्वत्कृते नववचनक्रियासम्पावनार्धम् अभियं कथं वक्ष्यामीति योजना ॥ ३२॥ क्षमेति । क्षमा अन्तरिन्द्रियनिग्रहा, दमा बहिरिन्द्रियनिग्रह, धर्मः नित्यकर्माष्ठानम् प्राणिनामहिंसा च यस्मिन रामे वसतीति प्रत्येकममिसम्बध्यते, तमृते मम का मतिः ॥ ३३॥ ममेति । मतान्तस्य मतायुषः तपस्विनी For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy