________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
विशेषो लक्ष्यते, अतो न प्रक्रमविरोधः । गूढे मांसलत्वेनाप्रकाशे जत्रुणी अंसद्वयसन्धिगतास्थिनी यस्यासौ गूढजन्त्रः । " स्कन्धो भुजशिरोऽसोऽस्त्री "सन्धी तस्यैव जत्रुणी" इत्यमरः । “विषमैर्जत्रुभिर्निःस्वा अतिसूक्ष्मैश्व मानवाः । उन्नतैर्भोगिनो निम्नैनिःस्वाः पीनैर्नराधिपाः॥” इति लक्षणम् । अरीन् दमयति निवर्त्तयतीत्यरिन्दमः । " संज्ञायां भृतृवृजिधारिसहितपिदमः " इति खच् । असंज्ञायामप्यार्षः । अरिशब्देन पाप्मा विवक्षितः, अपहतपाप्मे त्यर्थः । अनेनायं विग्रहपरिग्रहो न कर्ममूलः, किन्त्वनुग्रहमूलः, “ इच्छागृहीताभिमतोरुदेहः " इति स्मृतेः । अतः न प्रक्रमभङ्गः । जानु ऊरुपर्व, तत्पर्यन्तं विलंबिबाहुराजानुबाहुः । सुष्ठु समं वृत्तं छत्वाकारं शिरो यस्यासौ सुशिराः। “समवृत्तशिराश्चैव छत्राकारशिरास्तथा । एकछवां महीं भुङ्गे दीर्घ मायुश्च जीवति ॥” इति लक्षणम् । सुललाटः । ललाटसौष्ठवं शेक्तम्- "अर्धचन्द्रनिभं तुङ्गं ललाटं यस्य स प्रभुः" इति । शोभनः विक्रमः पदविक्षेपो यस्यासौ सुविक्रमः, शोभनत्वं च गजादितुल्यत्वम् । तथोक्तं जगद्वल्लभायाम् - " सिंह भगजव्याघ्रगतयो मनुजा मुने । सर्वत्र सुखमेधन्ते सर्वत्र जयिनः समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ ११ ॥
सदा ॥ " इति ॥ १० ॥ समः नातिदीर्घो नातिह्रस्वः । तथात्वं च तत्रैवोक्तम्- " पण्णवत्यङ्गुलोच्छ्रायः सार्वभौमो भवेन्नृपः " इति । समानि अन्यू नाधिकपरिमाणानि विभक्तानि अश्लिष्टानि अङ्गानि करचरणाद्यवयवा यस्य स समविभक्ताङ्गः । तानि चोक्तानि सामुद्रिकैः- “भ्रुवौ नासापुटे नेत्रे कर्णा वोष्टौ च चूचुकौ । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी। करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः॥” इति । स्निग्धः स्नेहयुक्तो वर्णो यस्य सः (स्निग्धवर्णः । तत्रोक्तं वररुचिना "नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम्। त्वचः स्नेहेन शय्या च पादस्नेहेन वाहनम्" इति । प्रतापवान् तेजस्वी, समुदायशोभासम्पन्न इत्यर्थः । पीनवक्षा मांसलवक्षाः । विशाले पद्मपत्रायते अक्षिणी यस्य सः विशालाक्षः । " बहुवीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच" इति पच । अत्र सामुद्रिकम् - "रक्तान्तेः पद्मपत्राभैर्लोचनैः सुखभोगिनः" इति । लक्ष्मीवान् अवयवशोभायुक्तः । शुभलक्षणः अनुक्तसकललक्षणसंपन्नः॥ ११ ॥ आजानुबाहुः जानुपर्यन्तदीर्घबाहुः । सुशिरा:--" सुशिरस्त्वं वृत्तशिरा: " इत्यादिसामुद्रिकशास्त्रोक्तलक्षणलक्षितशिरोविशिष्टत्वम् । सुललाटः- “ललाटे यस्य दृश्यन्ते चतुखियेक रेखिका: " इत्युक्तचतूरेखासौभाग्यविशिष्टललाटत्वम् । सुविक्रमः सुष्ठु विक्रमः पादविन्यासो यस्य सः । विक्रमस्य सौष्ठवं नाम-गजसिंहादि गतिसदृशत्वम् ॥ १० ॥ सम इति । समः" षण्णवत्यङ्गुलोत्सेधो यः पुमान स प्रकाशते " इत्युक्तरीत्या अन्यूनातिरिक्तविग्रहपरिमाणः । समविभक्ताङ्गः समानि अन्यूनातिरिक्तानि विभक्तानि पृथकृतानि अङ्गानि अवयवा यस्य स तथोक्तः, अनेनोभयपार्श्वस्थकक्षश्रोत्रबाहादीनामङ्गानामुपाङ्गानां च समत्वमुक्तं भवति
For Private And Personal Use Only