________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥९॥
वा.रा.भू. एवमाश्रितानुभाव्यदिव्यमङ्गलविग्रहशालित्वमुक्त्वा आश्रितरक्षणोपयोगिगुणानाह - धर्मज्ञ इत्यादिना स्वजनस्य च रक्षितेत्यन्तेन । धर्म शरणा ॐ गतरक्षणरूपं जानातीति धर्म्मज्ञः । वक्ष्यति - " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य स्यात्सतामेतद्गर्हितम् ॥ " इति सत्या सन्धा प्रतिज्ञा यस्य स सत्यसन्धः । “प्रतिज्ञाने वधौ सन्धा" इति वैजयन्ती । "अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः॥” इति । प्रजानां प्राणिनां हिते हितकरणे रतः तत्परः । यशस्वी आश्रितरक्षणैककीर्त्तिः । "तस्य नाम महद्यशः" इति श्रुतेः । ज्ञानसंपन्नः " यः सर्वज्ञः सर्ववित्" इत्युक्तरीत्या स्वरूपतः स्वभावतश्च सर्वविषयज्ञानशीलः। शुचिः पावनः परिशुद्धो वा, ऋजुरिति यावत् । वश्यः वशंगतः । " वशं गतः" इति निपातनाद्यत् । आश्रितपरतन्त्र इत्यर्थः । समाधिमान् समाधिः आश्रितरक्षणचिन्ता, तद्वान् । प्रजापतिसमः "मध्ये विरिञ्चिगिरिशं प्रथमावतारः" इत्युक्तरीत्या जगद्रक्षणाय प्रजापतितुल्यतयावतीर्णः । श्रीमान् पुरुषकारभूतया लक्ष्म्या अविनाभूतः । धाता पोषकः ।
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् । प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ॥ १२ ॥ रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता। रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ॥ १३ ॥ 'डुधाञ् धारणपोषणयोः” इति धातोस्तृच् । रिपून् शत्रून निषूदयति निरस्यतीति रिपुनिषूदनः । " सुददीपदीक्षश्च ” इति प्रतिषेधस्यानित्यत्वात् "अनुदात्तेतश्व हुलादेः” इति युच, नन्द्यादिपाठाद्वा ल्युः । सुषामादित्वात् पत्वम् । आश्रितविरोधिनिरसनशील इत्यर्थः ॥ १२ ॥ अथावतारैकान्तान गुणानाह-रक्षितेति । लोके सार्वभौमः स्वकीयजनरक्षण एवं यतते, अयं तु न तथा, किंतु सर्वस्य प्राणिजातस्य रक्षिता । ताच्छ्रील्ये तृच । शेषे पष्ठी।। ननु यदि सर्वेषां रक्षिता तर्हि दुष्कृतिनमपि सुखिनमापादयेदित्यत्राह धर्मस्य परिरक्षितेति । आचरणप्रचारणाभ्यां सर्वधर्मस्य व्यवस्थापयिता । उच्छास्त्रप्रवर्त्तिनोऽपि चिकित्सकन्यायेन अनव ( अलङ ) यितेत्यर्थः । स्वस्य स्वकीयस्य शरणागतरक्षणरूपस्य धर्मस्य विशेषधर्मस्य विशिष्य स्निग्धवर्ण:- निर्णिक्तेन्द्रनीलवर्ण इत्यर्थः । प्रतापवान श्रवणमात्रेण शत्रुहृदयविदारकत्वेन प्रशस्तपौरुषः । लक्ष्मीवान- अत्र लक्ष्मीशब्देन सर्वोत्तमावयवसौभाग्य मुच्यते। शुभलक्षणः-शुभानि मङ्गलायतनानि लक्षणानि सामुद्रिकशास्त्रोक्तानि यस्य स तथोक्तः ॥ २१ ॥ धर्मज इति । सत्यसन्धः-सत्या यथार्थ सन्धा प्रतिज्ञा यस्य सः । ज्ञानसंपन्नः सर्वविषयज्ञानसंपन्न इत्यर्थः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । वश्यः पित्राचार्यविनीतः । प्रजापतिरिति । श्रीमान् अखण्डितैश्वर्यसंपन्नः । धाता | सकलजगद्धारण पोषणसामर्थ्ययुक्तः । रिपुनिषूदनः आश्रितजनानां ये रिपत्रः तेषां नाशकः ॥ १२ ॥ रक्षिना जीवलोकस्य प्रजानामरिष्टनिरसनपूर्वकेष्टप्रापणस्य
For Private And Personal Use Only
टी.बा. कां स० [१
॥ ९ ॥