________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
रक्षिता । यद्वा, धर्मस्य तत्तद्वर्णाश्रमधर्मस्य नित्यं समन्ततो रक्षिता । लोके सर्वधर्मप्रवर्त्तकोऽपि "धर्मोपदेशसमये जनाः सर्वेऽपि पण्डिताः। तदनुष्ठान समये मुनयोऽपि न पण्डिताः ॥ " इति न्यायेन स्वधर्मानुष्ठाने स्खलति न तथायमित्याहू - स्वस्य धर्मस्य रक्षिता, स्वासाधारणस्य क्षत्रियधर्मस्य | रक्षितेत्यर्थः । लोके सर्वरक्षकोऽपि कश्चित्स्वजनरक्षणं कर्त्तु न प्रगल्भते । " दास्यमैश्वर्धभावेन ज्ञातीनां च करोम्यहम् । अर्धभोक्ता च भोगानां वाग्दुरुक्तानि च क्षमे ॥” इति भगवताप्युक्तेः । तदपि कर्तुमीहत इत्याह स्वजनस्य च रक्षितेति । स्वजनस्य च, स्वजनस्यापीत्यर्थः । अनेन स्वजन रक्षणस्य दुर्घटत्वं सूचितम् । यद्वा, चस्त्वर्थः । स्वजनस्य शरणागतस्य विशेषेण रक्षिता । विशेषस्तु तदुपराधसहिष्णुत्वम् । वक्ष्यति - " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ॥” इति । यद्वा, ठोके कश्चित्सर्वान् रक्षन् स्वजनं पीडयति, असौ तु स्वजन
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः । सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ॥ १४ ॥
स्यापि रक्षितेत्यर्थः । अथवा स्वावतारप्रयोजनमाह रक्षितेति । गीतं हि - " परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभ वामि युगेयुगे ॥” इति । स्वजनस्य स्वशेषभूतस्येति सर्वलोकविशेषणं रक्षणहेतुसम्बन्ध द्योतनार्थम्। रक्षिता इष्टप्रापकः, अनेन साधुपरित्राणमुक्तम् । चशब्दोऽन्वाचये । रक्षिता च अनिष्टनिवर्त्तकः । अनेनानुषङ्गिकदुष्कृद्विनाश उक्तः । धर्मस्य सामान्यविशेषरूपस्य स्थापनमाहेतरवाक्यद्वयेन । रक्षिता स्वस्य धर्मस्य सीतापरिणयमुखेन स्वाश्रमोचितधर्माणामनुष्ठाता । यद्वा, स्वस्य धर्मः परत्वम्, तस्य रक्षिता । हरधनुर्भङ्गपरशुरामजयादिना हि परत्वं स्थापितम् । यद्वा, धर्मो धनुः - " स्वाम्यस्वभावसुकृतेष्वस्त्री धर्मे तु कार्मुके । ” इति बाणः । सदा धनुर्द्धरः । स्वजनस्य च रक्षिता स्वभूतो जनः स्वजनः ज्ञानी "ज्ञानी त्वात्मैव मे मतम्" इति गीतत्वात् तस्य रक्षिता; आत्मन इव सर्वयोगक्षेमावह इत्यर्थः ॥ १३ ॥ अथास्याष्टादशविद्यास्थानाभि ज्ञत्वमाह-वेदेति । विदन्त्यनेन धर्मादिकमिति वेदः । करणे घञ् । स चतुर्विधः । ऋग्यजुःसामाथर्वणभेदात् । वेदस्य किञ्चित्कराणि वेदाङ्गानि तानि कर्तेत्यर्थः । धर्मस्य परिरक्षिता धर्मस्य परिरक्षणं नाम-तसद्धर्मेषु वर्णाश्रमाणां नियोजनम् । रक्षिता स्वस्य धर्मस्य, अत्र धर्मशब्दः यजनाध्ययनदानपरः तत्परिपाल | यिता । स्वजनस्य रक्षिता स्वजनस्य आश्रितवान्धवादेः जीवलोकस्य रक्षितेत्यनेनैवाश्रितादिजनरक्षणे सिद्धेपि पुनस्तद्रक्षणकथनं विशेषतो रक्षणद्योतना र्थम् ॥ १३ ॥ वेदवेदाङ्गतत्त्वज्ञः - वेदानां चतुर्णा तदङ्गानां शिक्षादीनां पाठतोऽर्थतश्च तत्त्वमवाधितं स्वरूपं जानातीति तथा धनुर्वेदे च निष्ठितः अस्त्रशस्त्रादि
For Private And Personal Use Only