________________
Shri Mahavir Jain Aradhana Kendra
www.kobaithong
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भू.
॥१०॥
Be
च पद । तथोक्तम्-"शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दसां विचितिश्चेति षडङ्गानि प्रचक्षते ॥” इति । तत्र शिक्षानाम-अकारा टी.बा.का. दीनां वेदवर्णानां स्थानकरणप्रयत्नस्वरादिबोधिका, यागनियाक्रमोपदेशः कल्पः, साधुशब्दव्याख्यानं व्याकरणम् "वर्णागमो वर्णलोपो वर्णविपर्ययः" .. इत्यादिना निश्चयेनोक्तं निरुक्तम्, कर्मानुष्ठानकालादिप्रतिपादकं शास्त्रं ज्यौतिषम्, छन्दसा पद्यानां शास्त्रं छन्दोविचितिः । वेदाश्च वेदाङ्गानि च वेदवेदा ङ्गानि तेषां तत्त्वं तत्त्वार्थः तं जानातीति तथोक्तः। " इगुपधज्ञाप्रीकिरः कः" इति कप्रत्ययः । धनुर्वेदो नाम-धनुर्हस्तमुष्टिस्थितिविशेषाकर्षण विमोक्षणदिव्यास्त्रादिप्रयोगप्रतिपादको ग्रन्थः। चकार इतरोपवेदस जयार्थः। क्षत्रियो धनुर्वेदप्रधान इति तस्य निर्देशः। ते चोपवेदाश्चत्वारः। तथाहि"आयुर्वेदो धनुर्वेदो वेदो गान्धर्व एव च । अर्थशास्त्रमिति प्रोक्तमुपवेदचतुष्टयम् ॥” इति । आयुर्वेदो बाहट वैदिकधर्मानुष्ठानविरोधिरोगनिवर्तकोप धादिप्रतिपादकम् । गान्धवेदो भरतशास्त्रं सामगानोपयोगि। अर्थशास्त्रं चाणक्यादिप्रणीतं नीतिशास्त्र कर्मानुष्ठानेषूपयोग्यर्थसाधनम्, तेषु निष्ठितः।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः । सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ॥ १५ ॥ सर्वशास्त्रार्थतत्त्वज्ञ इति । सर्वशास्त्राणि उपात्तव्यतिरिक्तानि उपाङ्गानि गोचलीवर्दन्यायात् । “धर्मशास्त्रं पुराणं च मीमांसान्वीक्षिकी तथा। चत्वार्य तान्युपाङ्गानि शास्त्रज्ञाः संप्रचक्षते ॥” इति । तत्र धर्मशास्त्रं पूर्वकाण्डोपटूंहणम्, पुराणं वेदान्तोपबृंहणम्, न्यायमीमांसे सर्ववेदसाधारण्यो तेषामर्थ तत्त्वम् अर्थयाथात्म्यम्, निगूढाशयमित्यर्थः । तत् जानातीति तथा । अष्टादशविद्यास्थानतत्त्वज्ञ इत्यर्थः । स्मृतिमान् ज्ञातार्थविषये विस्मरण लेशरहितः। प्रतिभानवान व्यवहारकाले श्रुतस्याश्चतस्य वा झटिति स्फुरणं प्रतिभानम्, तद्वान् ॥ १४ ॥ अथ सर्वदा सदुपास्यत्वमाह-सवेति । सर्वे। लोकाः प्रिया यस्य सः सर्वलोकप्रियः, सर्वेषां लोकानां प्रियः सर्वलोकप्रियः । सर्वलोकप्रियत्वात् सद्भिरभिगन्तव्य इत्यर्थः । साधुः तत्कार्यसाधकः उण् प्रत्ययः । यद्वा साधुः उचितः, सदभिगमनोचित इत्यर्थः। "साधुखिपूचिते सौम्ये सजने वाधुषावपि" इति वैजयन्ती। अदीनात्मा अकार्पण्यात्मा। प्रतिपादक शाखं धनुर्वेदः तस्मिन्त्रिीष्टितः निष्णातः । सर्वशास्त्रार्थतत्वज्ञः-सांख्ययोगनर्कवैशेषिकपूर्वोत्तरमीमांसाव्याकरणानि स्मृनयश्च सर्वशाखाणि, सर्वेषामेषा मर्थतत्त्वज्ञः । पाठस्थानतिप्रयोजनवादविशेषणम् । स्मृतिमान पूर्वानुभूनार्थाविस्मरणशीलः । प्रतिभानवान-"प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा विदुः" इत्युक्तप्रतिभा प्रतिभान, सद्वान ॥ १४ ॥ सर्वलोकप्रियः सर्वलोकानां प्रियः, सर्वे लोकाः प्रिया यस्येति वा । साधुः अपकारिषपि उपकारशीलः । अदीनात्मा।
For Private And Personal Use Only