________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अतिगम्भीर प्रकृतिरिति यावत् । विचष्ट इति विचक्षणः । नन्द्यादित्वात् ल्युः " अस्युस्यनेचक्षिङः ख्यान नेति वाच्यम् " इति ख्याञादेशाभावः । विविधं वक्तीत्यर्थः । अतएव सर्वदा सदुपास्यमानत्वमाह सर्वदेति । सर्वदा अस्त्राभ्यासकालेष्वपि सद्भिः सत्पुरुषैः अभिगतः परिगतः परिवारित इत्यर्थः । कथमिव ? समुद्रः सिन्धुभिरिव नदीभिरिव । " स्त्री नद्यां ना नदे सिन्धुदेशभेदेऽम्बुधौ गजे । " इति वैजयन्ती । सर्वदाभिगतः सद्भिः खुरलीकेलिश्रमविश्रान्त एकान्ते छायामवगाहमाने रामे सन्तः सर्वे तत्तदर्थविशेषश्रवणाय परिवृत्त्य स्थिता इत्यर्थः । तथा च वक्ष्यति--" ज्ञानवृद्ध वयोवृद्धैः शीलवृद्धैश्व सज्जनैः । कथयन्नास्त वै नित्यमस्त्र योग्यान्तरेष्वपि ॥ " इति । अत्र योग्योऽस्त्राभ्यासः । समुद्र इव सिन्धुभिः । एवं सदभिगमनं न रामस्याज्ञातज्ञापनाय तस्य स्वत एव पूर्णत्वात् । किन्तु स्वेषामेवा पूर्वार्थविशेषलाभाय गत्यन्तराभावादिति भावः । सिन्धवो हि स्वसत्तालाभायैव
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः। स च सर्वगुणोपेतः कौसल्यानन्दवर्द्धनः ॥ १६ ॥
समुद्रमभियान्ति न तु तस्यातिशयापादनाय ॥ १५ ॥ तनि०- सर्वदेति । सद्भिः रामसम्बन्धलुब्धसत्ताकै वसिष्ठादिभिः सर्वदा सिन्धुभिरभिगतस्समुद्र इव महानदीत्वसिद्धये सिन्धवो यथा समुद्रं परिगताः । एवं स्वसज्जनत्वसिद्धये सन्तः रामगोष्ठीं प्रविशन्तीति सिन्धुभिस्समुद्र इवेति । एकगोष्ठीनिष्ठेषु सत्सु नक्षत्रमध्यगतस्प चन्द्रस्येव रामस्य सर्वापेक्षया निरतिशयतेजिष्ठत्वं गम्यते । सिन्धुभिः अनर्गलप्रवाहाभिः यथा समुद्रः अक्षोभ्यः एवं जाबालिप्रभृतिभिः क्षोभितोऽपि अक्षोभ्य इति व्यञ्जितम् । सर्वदेति कालविशेषे एकदा सिन्धुभिः परिगतस्समुद्रः, अयं तु सर्वदेति वैलक्षण्यम् । सर्वदाभिगत इति प्रयोजनवशेन मतामभिगमने तेस्सह जल्पवितण्डादि करणे ते चासह्यतया नाभिगच्छन्ति लोके, रामस्तु तथा न करोतीति ध्वन्यते । वक्ष्यति च " न विगृह्यकथारुचिः " इति । रत्नाकराभिगतसिन्धूनां तदभिगमनदेश एव कतिपयरत्नसम्बन्धः । एवं गुणाकररामसम्बन्धादेव सतां कतिपयगुणाः प्रकाश्यन्त इत्यभिगतपदव्यङ्ग्यम् । लोके राजकुमाराः कदाचिद्विनोदार्थमेकान्तगोष्ठयां शृङ्गारहास्परसविद्भिः परिगता भवन्ति, अयं तु न तथेति सत्पदव्यङ्गयम् । सिन्धुभिस्समुद्र इवेति सतां प्राप्यान्तरराहित्यं श्रीरामस्य सौलभ्यं च व्यज्यते ॥ १५ ॥ एवमभिगमनहेतुभूतं सौलभ्यादिकं विशदयति--आर्य इति । पूर्वात् 'ऋ गतौ ' इत्यस्माद्धातोः कर्मणि ण्यत्प्रत्ययः । अभिगन्तुमई इत्यर्थः । अतिव्यसनपरम्परायामपि अक्षुभितान्तःकरणः। विचक्षणः तत्तत्कालकर्तव्यचतुरः सर्वदेति । नदीभिः समुद्र इव सद्भिः महात्मभिः सर्वदाभिगतः सेवितः | सर्वदेत्यनेन नदीनां समुद्रसेवायामित्र भक्तानां भगवत्सेवायां कालनियमो नास्तीत्युक्तं भवति । अभिगत इत्यनेन परमप्राप्यत्वमुक्तम्। समुद्रइव सिन्धुभिरित्यनेन सत प्राप्यान्तरराहित्यं द्योत्पते। प्राप्तानां च सतां तेन ऐक्यं च प्रतीयते ||१५|| आर्यः पूज्यः । सर्वसमः सर्वेषु शत्रुमित्रोदासीनेषु वैषम्यरहितः । सदैव (क) प्रियदर्शनः
For Private And Personal Use Only