________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स.१
चा.रा.भू./किं सतामेव ? नेत्याह--सर्वसमः, जातिगुणवृत्त्यादितारतम्यं विना सर्वेषामाश्रयणीयत्वे तुल्यः । अस्य कादाचित्कवं वारयत्येवकारः । चकार
उक्तसमुच्चयार्थः । किञ्चिदुपदेशाभावेऽपि सौन्दर्यादभिगन्तव्यत्वमाह सदेकप्रियदर्शन इति । सदानुभवेऽपि नवनवतया भासमान इत्यर्थः। अथ "इघुक्षयानिवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयानिवर्तन्ते न गोविन्दगुणक्षयात् ॥” इति भगवद्गुणानां वर्षायुतेनापि वर्णयितुमशक्यत्वेन सङ्ग्रहेण वदन्नत्तरमुपसंहरति-स चेति । कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। "वृद्धत्कोसलाजादाभ्यङ्" इति भ्यङ्प्रत्ययः । " यङश्चाप" इतिचाप्। तस्या आनन्दं वर्द्धयतीति कौसल्यानन्दवर्द्धनः। चशब्द एवकारार्थः। कौसल्यासुतत्वेनावती! विष्णुरेख वेदान्तोदितसकलगुणसम्पन्नः परमात्मा, न तु ब्रह्मादिष्वन्यतम इत्यर्थः । दशरथनन्दन इत्यनुक्तिः पुत्रलाभफलस्य कौसल्ययैव लाभात् । अतएव वक्ष्यति-"कौसल्या लोकभारं सुषुवे यं मनस्विनी" इति ॥ १६॥ अथास्य निस्समाभ्यधिकत्वं वक्तुं लोके प्रकृष्टवस्तूनां तदेकैकगुणसाम्यमाह-समुद्र इवेत्यादिश्लोकद्वयेन । गाम्भीर्य
समुद्र इव गाम्भीर्ये धैर्यण हिमवानिव । विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ॥ ७॥ नाम-स्वान्तर्गतपदार्थाप्रकाशकत्वम् । यथा समुद्रः स्वान्तर्गतं रत्नादिकमप्रकाशयन्नेव वर्तते तथायमपि स्वीयं परत्वमप्रकटयनेवास्त इत्यर्थः। वक्ष्यति-"आत्मानं मानुषं मन्ये " इति । धैर्य नाम-शोकहेतुसद्भावेऽपि निःशोकत्वम् । तेन हिमवानिव हिमवत्सदृशः। “गिरयो वर्षधाराभिहन्य माना न विन्यथुः। अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः।" इति युक्तम् । अत्र वस्तुतः समुद्रादेरुपमानत्वाभावेऽपि प्रतिपत्तृणामुपमानत्वं सम्भवती त्येवमुक्तम् । यथा “इषुवद्गच्छति सविता" इत्यत्र । विष्णुनेति । वीय विषये विष्णुना सदृशः। विष्णोरर्धत्वेन रामस्य विष्णुसादृश्यं सुवचमेव ।। "स उ श्रेयान् भवति जायमानः" इत्युक्तत्वेन तदंशस्यापि तत्सदृशत्वं युक्तमेव । सोमवत्प्रियदर्शनः शोकनिवृत्तिपूर्वकमालादकरः॥ १७॥ सदैव सर्वावस्थासु मुहुर्मुहुरनुभवेऽपि अननुभूतपूर्ववत विस्मयनीयप्रियदर्शनः । स इति । सर्वगुणोपेनः उक्तानुक्तसकलगुणसम्पन्नः । कौसल्याया आनन्दं वर्धय- तीति तथा ॥ १६ ॥ स च सर्वगुणोपेत इति संक्षेपेणोक्तानन्तगुणेषु कतिपयगुणानाह-समुद्र इत्यादिलोकढ़येन । गाम्भीर्य अगाधाशयन्वे समुद्रतल्पः । धैर्य मनसाप्यष्यत्वम् । विष्णुनेति । यद्यप्ययमेव रामो विष्णुः मानुषोपाधिभेदादिष्णुनेति सादृश्यम् । यद्वा विष्णुना स्वेनैव बीर्ये सदृशः, उपमानान्तरराहित्यमनेनोकम् । सोमवत प्रियदर्शनः-चन्द्रवत्सर्वानन्दकरः ॥ १७ ॥
॥११॥
For Private And Personal Use Only