________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नियतात्मेत्यादिना । नियतात्मा नियतस्वभावः, निर्विकार इति यावत् । " नास्य जरयैतज्जयिते न वधेनास्य हन्यते अपहतपाप्मा विजरो विमृत्यु विशोको विजिघत्सोऽपिपासः " इत्यादिश्रुतेः । महावीर्यः अचिन्त्यविविधविचित्रशक्तिकः । " परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबल क्रिया च " इति श्रुतेः। द्युतिमान् स्वाभाविकप्रकाशवान्। स्वयंप्रकाशः ज्ञानस्वरूप इति यावत् । " विज्ञानघन एवं प्रज्ञानघनः इति श्रुतेः । धृतिमान् निरतिशयानन्दः । “धृतिस्तु तुष्टिः सन्तोषः” इति वैजयन्ती । "आनन्दो ब्रह्म" इति श्रुतेः। सर्वं जगद्वशेऽस्यास्तीति वशी, सर्वस्वामीत्यर्थः । " सर्वस्य वशी सर्वस्येशानः " इति श्रुतेः ॥ ८ ॥ तनि० अथ नारदः प्रस्तुतधर्मद्वयस्य प्रत्येक वृत्तित्वमनेन ज्ञातम्, एकधर्मविशेषनिष्ठत्वं त्वज्ञातम्, तदेवोपदेष्टव्य मित्यभिप्रायेणोत्तरमाह । तत्र प्रथमं लोकोत्तराश्रयविषयमभोत्तरस्य वक्तव्यतया आश्रयस्येतरव्यावर्तकत्वमाह- इक्ष्वाकुवंशप्रभव इति । तपस्समासादितश्रीरङ्गनाथा राधनफलतया तद्वंश एवावतीर्ण इतीक्ष्वाकुग्रहणम् । " वैष्णवो नः कुले जातस्म नः संतारयिष्यति " इत्येकवैष्णवजनिमात्रेण तद्वंशस्य सर्वस्याप्युत्तारः । यत्र तु बुद्धिमानीतिमान वाग्मी श्रीमान् शत्रुनिवर्हणः । विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥ सर्वे गृहाराधनीकृत श्रीरङ्गन्नाथाः तस्मिन्नेव वंशे स एवावतीर्णः । वंशस्य महत्त्व किं वक्तव्यमिति वंशपदाभिप्रायः । प्रभवत्यस्मादिति प्रभवः उत्पत्निस्थानम्, इक्ष्वाकुवंशः प्रभवो यस्य स इति बहुव्रीहिः । वंशप्रभव इति वंशस्योत्पत्तिस्थानत्वकथनेन कौसल्यागर्भस्याप्राकृतभगवद्विग्रहप्रवेशनिर्गममात्रहेतुत्वेनोत्पत्तिस्थानत्वमिति कथितम् । तेन “सुग्रीवमारुतिविभीषण पुण्यपादसंचारपूतभवनं प्रविवेश रामः" इतिवत्पवित्रितवंशप्रवेशो व्यञ्जितः । अथाश्रित बैलक्षण्यमाह राम इति । गुणैः रमयतीति रामः, रमन्ते योगिनोऽस्मिन्निति वा रामः । एवमाश्रितस्य सकलवस्तुविलक्षणत्वं परमव्योमविग्रहवैलक्षण्यं चोक्तम् “ स उ श्रेयान् भवति जायमानः " इति श्रुतेः । अवतारवैलक्षण्यं च रामं सत्यपराक्रममिति वक्ष्यति । नामेति प्रसिद्धी प्रसिद्धिश्व " तं धीरासः कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः " इत्यायुक्ता । देवयन्तः स्तुतिशीलाः । न केवलं वैदिकी प्रसिद्धि:, लौकिकी चास्तीत्याह-जनैः श्रुत इति । नियतात्मा असाधारण दिव्यमङ्गन्यविग्रहः । महावीर्यः - महत्वं दोषोपाध्यवधिसमातिशयरहितत्वम् व्युतिमान अतिशायने मनुषु। “ भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मनुवादयः ॥ " इत्युक्तः । एतेन नीलतोयदमध्यस्थविद्युत्सदृशी ज्ज्वल्यवत्त्वमुक्तम्। वक्ष्यति च “तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा " इति । धृतिमान धृतिर्विवरणम् प्रशासनाधीनलोक इत्यर्थः । वशी गुणवशीकृतसर्वजनः हृषीकेशों या । हृषीकेशः जितेन्द्रियः ॥ ८ ॥ अथ सृष्टयुपयोगिगुणानाह- बुद्धिमानित्यादिना । बुद्धिमान् सर्वज्ञः । "यः सर्वज्ञः सर्ववित्" इति श्रुतेः । नीतिमान् प्रभवो यस्य सः तथोक्तः । रमन्तेऽस्मिन्निति रामः, नामशब्दः प्रसिद्धी । नियतात्मा शिक्षितमनाः । वशी जितेन्द्रियः ॥८॥ बुद्धिमानिति । बुद्धिमान प्रशस्तधीः । बुद्धेः प्राशस्त्यं नाम "शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥" इत्युक्तगुणविशिष्टत्वम् । नीतिमान अतिशये प्राशस्त्ये
।
For Private And Personal Use Only