________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ताप्रहष्टः सन् । कतरिक्तः। रामगुणानुसन्धानजनितं निजवचित्र्यं व्याजेन परिहर्तुं श्रूयतामित्यामन्त्र्याभिमुखीकृत्य वाक्यमुत्तररूपमब्रवीत् व्यक्त मुक्तवान् ॥६॥ वक्ष्यमाणस्यासवुत्तरत्वपरिहारायात्मनो वाल्मीकेराशयाभिज्ञत्वमाइ-बहव इति ।यदा वेदान्तोदितगुणानां विष्णोरन्यत्रासम्भवात्तेषां पुरुषशब्दवाच्यत्वासंभवाचतुर्मुखसंप्रदायाच विष्णावेव परतत्त्वां परिशेषयन्नाह-बड़व इति । बड़वो विपुलाः, अनेकगुणविततिमूलभूता इत्यर्थः ।। अनेनापृष्टानामपि वक्ष्यमाणानां गुणानां निदानमुपदर्शितम् । यद्वा बहवः अपरिच्छिन्ना इत्यर्थः । श्रूयते हि अपारच्छिन्नत्वं गुणानाम् “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुत्तश्चन" इति । अत्रानन्दस्यैकस्यापरिच्छिन्नत्वोक्तिरितरेषामप्यपरिच्छिन्नत्व प्रदर्शनार्था । उक्तं हि यामुनाचार्यः-"उपर्युपर्यन्जभुवोऽपि पूरुषान्" इत्यादिना । दुर्लभाः परमपुरुषादन्यत्रासम्भाविताः, अन्येषां "न ब्रह्मा नशानः इत्यादिना असम्भाव्यत्वादिवचनादिति भावः । अनेन प्रश्नस्य देवताविशेषनिरिणपरत्वमात्मनावगतमिति व्यनितम् । चकार उक्तसमुच्चयार्थः
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्धा तैर्युक्तः श्रूयतां नरः॥ ७॥ अनुक्तसमुच्चयार्थो वा । तेन स्वाभाविकानवाधिकातिशयासङ्खयेयकल्याणरूपा इत्युक्तम् । एवकार इतरत्र सर्वात्मना असंभावितत्वमभिव्यनक्ति। य इति वेदान्तप्रसिद्धिरुच्यते । गुणाः वीर्यादयः कीर्तिता इत्यनेन गुणानां प्रश्रकालेऽपि भोग्यतातिशयः सूच्यते । तैर्युक्तः, न तु कल्पित इति निर्गुणवादनिरासः। नरः पुरुषः।"पुरुषाः पूरुषा नराः" इति निघण्टुः । “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” "पुरुषः पुण्डरीकाक्षः" इति श्रुतिस्मृत्यनुगतः पुरुषशब्दोऽनेन प्रत्यभिज्ञाप्यते । श्रूयतां न तु यथाकथंचित्परिकल्प्यताम् । शृण्वित्यनभिधानात् विनयोक्तिरियम् । तात्कालिक किंचित्प्रकल्प्यत इति धर्म वारयति अहं बुन्हा वक्ष्यामाति । मत्पितुर्ब्रह्मणः सकाशात् शतकोटिप्रविस्तररामायणमुखेन विदित्वा वक्ष्यामि । अनेन सम्प्रदायाभिज्ञत्वमात्मनो दर्शितम् । यदा, रामगुणानुसन्धानवैचित्र्येन न मे किंचित्प्रतिभाति, क्षणात् बुहा वक्ष्यामीत्यर्थः । अतो मध्ये वाक्यान्तर मलकाराय । अन्यथा वाक्यगभितमिति काव्यदोषः स्यात् । अहं वक्ष्यामि अहंभूत्वा वक्ष्यामि, नेदानीं नारदोऽस्मि, रामगुणश्रवणशिथिलत्वात् । रामगुणमनोऽयं नदीप्रवाहमन इव अवलम्बनयष्टिमपेक्षते-हे मुन इति । यद्वा, प्रश्रकाले समवधानविशेषमालक्ष्य श्लाघते मुन इति । अथ क्षणासन्धु क्षितो नारदो वाक्यशेष पूरयति तैरिति । नर इत्यनेन परतत्त्वनिर्धारणं प्रश्नफलितार्थ द्योतयति । बुद्धा इत्यनेन श्रुतिस्थतत्तच्छन्दाथों विवृतः॥ ७॥ जगद्रक्षणार्थ नृरूपेणावतीणे परमपुरुष एव सम्भवात दिष्टया तद्गुणकीननं लब्धमिति प्रहर्षः ॥ ६ ॥ बहव इति । बुध्वा वक्ष्यामि महापुरुषं निश्चित्य वभ्यामि
।
For Private And Personal Use Only