________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
वेदान्तेषु नानाविद्यासु तत्तदणविशिष्टतयावगम्यमानं परं तत्त्वं किं विष्णुः, उत रुद्रादिष्वन्यतम इति प्रश्रार्थः । तदिदं वाल्मीके हृदयमाकलयन्टी .बा.का. भगवान्नारदोऽपि रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यः पुरुषः, ब्रह्मादयः सर्वे तभृकुटीभटास्तत्परतन्त्राः । सद्ब्रह्मात्मादिशब्दाश्च पर्यवसान वृत्त्यावयववृत्त्या च विष्णुपरा इत्येवमाशयेन सकलवेदान्तोदितगुणजातं रामे योजयनुत्तस्यतीति सर्वमनवद्यम् ॥५॥ तनि०-एतत् पूर्वोकदेश कालगुणविशिष्ट वस्तु आतुमिच्छामि । परं कौतूहलम् न केवलमुक्तगुणविशिष्टे कौतूहलं न केवलमेतद्देशकालसम्बन्ध नर, किन्तुभयात्मके, तस्याश्चर्यरूपतया तच्छ्वर्ण कौतूहलम् । हिशब्दः प्रसिद्धी । सर्वत्राश्चर्यदर्शने कोतूहलं प्रसिद्धम् । उभयं प्रत्यकं मया ज्ञातं श्रुतवेदान्तत्वात न तत्र कातृहलम । नन्वतादृशं वस्तु कथं मया वन शक्यत इत्यत्राह-त्वं समर्थोऽसीति । कथं मम सामर्थ्यम् ? तबाह-महर्ष इति । ऋथयो ह्यलौकिकार्थद्रष्टारः । तत्र महर्षित्वानव मनोऽपि वेदान्तरहस्यज्ञानमधिकमिति । एवंविधं नरं परमपुरुषम् ॥ ५॥ एवं " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इत्युक्तं गुरूपसदनविधिमुपबृंहय “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच ता
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेनारदो वचः । श्रूयतामिति चामन्य प्रहृष्टो वाक्यमब्रवीत् ॥६॥ तत्त्वतो ब्रह्मविद्याम्" इत्युक्तं प्रवचनविधिमुपबृंहयति-श्रुत्वेत्यादिना । तत्र "नासंवत्सरवासिने प्रत्यात् ” इति नियमस्य ज्येष्टपुत्रव्यतिरिक्त विषयत्वात् वाल्मीकेश्च भृगुपुत्रतया भ्रातृपुत्रत्वात् शुथूपानिरपेक्षं प्रीत्योपदिदेशेत्याह--श्रुत्वा चेति । त्रयाणां लोकानां समाहारस्त्रिलोकम् । पात्रादित्वान्न डीप । यद्वा त्रित्वविशिष्टो लोकत्रिलोकः । " नवरसरुचिराम्” इत्यत्र काव्यप्रकाशे तथैव व्याख्यानात् । यद्वा त्रयो लोका यस्मिन् तत्रिलोकमिति ब्रह्माण्डमुच्यते, तजानाति त्रिलोकज्ञः । भूर्भुवःस्वरिति त्रैलोक्यम् । यदा विष्णुपुराणोक्तरीत्या कृतकमकृतकं कृतकाकृतकमिति ।।
यो लोकाः । महर्लोकपर्यन्ताः कृतकाः ।जनोलोकः कृतकाकृतकः। सत्यलोकोऽकृतक इति । यदा लोका जनाः "लोकस्तु भुवने जने" इत्यमरः ।। बद्धनित्यमुक्तात्रयो लोकाः । नारदः ब्रह्मपुत्रतया तज्ज्ञानाहः। एतत्पूर्वोक्तरीत्या व्यङ्गयार्थगर्भ वाल्मीकेःस्वाभिमतस्य पुत्रस्य वचः परिपूर्णार्थ वाक्यं श्रुत्वा निशम्य । चकारेण तदहित्वा चेत्यर्थः। प्रदृष्टः स्वेनोपदिदिक्षितस्यैव पृष्टत्वेन सन्तुष्टः शतकोटिप्रविस्तररामायणे स्वावगतस्यैवानेन पृष्ट । त्वात् रामगुणस्मरणामृतपानसभादपूर्वशिष्यलाभादा “सोहं मन्त्रविदेवास्मिनात्मवित्" इत्युक्तरीत्या सनत्कुमारं प्रति स्वस्योपसर्पणस्मारकत्वादा ॥ श्रुत्वेति । एतत पूर्वोक्तं प्रश्नजातम् । निट बिलोकगोचरज्ञान इत्यर्थः । आमन्त्र्य ऐकाम्यसिद्धयर्थमभिमुखीकृत्य, प्रहष्टः कस्य बिभ्यति देवाश्चेति दृष्टदेवादि भीषकत्वगुणसंपत्तेः ब्रह्मादिवप्रसक्तोऽयं प्रभः सकलगुणविशिष्टसार्वभौमविषयक इत्यवगम्यते, नत्रापि सार्वभौममात्रे पृष्टप्रशस्तसकलगुणसंपत्तेरसम्भवात्सकल
For Private And Personal Use Only