________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
II वा.रा.भ. “भूतं क्षमादौ च जन्ती च न त्रियाँ गुणसत्त्वयोः" इति वाणः । हितः हितकरः । हितशब्दात् “ तत्करोति" इति णिच. पचायन, णिलोपे पूर्वरूपे टी.
VIच रूपम् । भूतशब्देन स्वपरतारतम्याभाव उक्तः। सर्वशब्देन सापराधप्वपि हितकरत्वमुक्तम् । वेत्तीति विद्वान् सर्वशास्त्रज्ञः। “विदेः शतु स. १
सुः" । समर्थः सर्वकार्यधुरंधरः। प्रियं दर्शनं यस्यासौ प्रियदर्शनः, एकश्चासौ प्रियदर्शनश्च एकप्रियदर्शनः । अयमिव नान्यो लोके प्रियदर्श नोऽस्तीत्यर्थः । यदा एकप्रियदर्शनः एकरूपप्रियदर्शनः । लोके हि कस्यचिद्दर्शनं कदाचित्प्रियं भवति कदाचिदप्रियं च भवति । " तस्मादुःखा त्मकं नास्ति न च किश्चित्सुखात्मकम्" इति वचनात् । अयं नुन तथा. किंतु “क्षणेक्षणे यन्त्रवतामुपैति तदेव रुपं रमणीयतायाः" इत्युक्त रीत्या सदानुभवेऽप्यपूर्ववद्विस्मयमादधान इत्यर्थः। तथैवोत्तरयिप्यति-सदैकप्रियदर्शन इति । “एके मुख्यान्यकेवलाः" इत्युभयत्राप्यमरः ॥३॥
आत्मवान को जितक्रोधो द्युतिमान कोऽनमूयकः। कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ ४॥ आत्मवानिति । आत्मवान् धैर्यवान् । “आत्मा जीवे धृतो देहे स्वभावे परमात्मनि " इत्यमरः। अग्रकम्प्यधैर्य इत्यर्थः । जितक्रोधः विधेयकोप दण्डाहेष्वेवाहितकोप इत्यर्थः। "कोषमाहाग्यत्तीत्रम्" इति हि वक्ष्यति । द्युतिमान कान्तिमान् "रुपसंहननं लक्ष्मी सौकुमार्य सुवेषताम । ददृशु विस्मिताकारा रामस्य वनवासिनः ॥” इति हि वक्ष्यति । गुणेषु दोषाविष्करणमसूया । “असूया तु दोषारोपो गुणपपि" इत्यमरः । अविद्यमानासूया , यस्यासावनसूयकः । “शेषाद्विभाषा" इति कपि “आपोऽन्यतरस्याम्" इति ह्रस्वः । यदा असूयकः अमूङ कण्डादौ पठितः। तस्मात् “कण्डादिभ्यो । यक" इति यक्प्रत्ययः । “ अकृत्सार्वधातुकयोः" इति दीर्घः । ततो "निन्दहिस-" इत्यादिना बुभ् । स न भवतीत्यनसूयकः । कस्येति । देवाश्चेति । चकारेणासुरादयः समुच्चीयन्ते । जातरोपस्य कस्य संयुगे देवादयः सर्वे विभ्यतीत्यन्वयः। अतोन "भीवार्थानां-" इति किंशब्दात्पञ्चमी । शत्रुविषयः कोपी मित्राणामपि भयमावहतीत्यर्थः । यदा चकारोऽप्यर्थः । अनुकूला अपि बिभ्यति. किं पुनः प्रतिकूला इत्यर्थः । यदा संयुगे जातरोषस्य कस्य विभ्यतीत्येवान्वयः। शेषे षष्टी । “संज्ञापूर्वको विधिरनित्यः" इत्यपादानसंज्ञापूर्वकपञ्चम्यभावः । अत्र शोकत्रये समृद्धिमवस्तुवर्णनादुदात्तालङ्कारः॥४॥
प्रियदर्शनः एकमद्विनीयं प्रियं दर्शन यम्य सः । प्रियस्य विषयद्वारकत्वान असदृशावयवाभिमप्य इत्यर्थः ॥ ३ ॥ आत्मवानिनि । आत्मवान वशी INकृतान्तःकरणः, यद्रा प्रतिमान । जिनक्रोधा-अत्र क्रोधशदः कामादीनामुपलक्षकः, जितारिषडग इत्यर्थः । गुनिमान प्रशस्तकान्तिमान । अनस्यकः गुणा
Kelu
For Private And Personal Use Only