________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नार्थ स गुरुमेवाभिगच्छेत् " इत्येतदुपपादितम् । “विधिवदुपसन्नः पप्रच्छ" इति श्रुतेः । अत्रब्रह्मवाचितपशब्दप्रयोगेण देवतानमस्काररूपं मङ्गल माचरितम् । तथोक्तम्-"अ इति भगवतो नारायणस्य प्रथमाभिधानमभिदधता किंनाम मङ्गलं नहातेम" इति । "देवतावाचकाः शन्दा ये च भद्रादिवाचकाः। ते सर्वे मङ्गलार्थाः स्युलिपितोगणतोऽपि च ॥” इति । निरन्तरनिरतिशयानन्दरूपं तपोवानपं ब्रह्म स्वाध्याय सुष्ट ध्यात्वेति वा देवतानमस्कारः। गुरुनमस्कारश्च कृतो भवति । कथम् ? तपःसु निरतं नारदमाध्याय परिपप्रच्छेति । यद्वा परि पूजयित्वेत्यर्थः। “परिः समन्ततोभाव व्याप्तिदोषकथासु च । भाषाश्शेषे पूजने च वर्जने वचने शुभे ॥” इति वचनात् । नारदं संपूज्य पप्रच्छेत्यर्थः। "पराशरं मुनिवरं कृतपौहिकक्रियम् ! मित्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च॥” इतिवत् ॥ अस्य श्रीरामायणस्य गायत्र्यक्षरसंख्यानुसारेण चतुर्विशतिसहस्रग्रन्थसङ्ख्यया प्रवृत्तत्वात् प्रथम सहस्रोपक्रमे तकारः प्रयोक्तव्य इति सत्स्वपि ब्रह्मवाचकेषु शब्दान्तरेषु तपःशब्दस्यैव प्रयोगः । प्रबन्धादौ तकारप्रयोगश्चावश्यकः । तस्य वक्त चिकस्य च सौख्यकरत्वात् । तथोक्तम् " वस्तुलाभकरो णस्तु तकारः सौख्यदायकः" इति । साहित्यचूडामणौतु-"तकारो विननाशकः" इत्यु। तम् । किंच तकारस्य जलं भूतं वृहस्पतिर्देवता । अतः शुभावहोऽनेन प्रबन्धारम्भः। अतएवोक्तं चमत्कारचन्द्रिकायाम्-"वर्णानामुद्भवः पश्चास्यक्तिः संख्या ततः परम् । भूतबीजविचारश्च ततो वर्णग्रहा अपि ॥” इत्यारभ्य “एतत्सर्वमविज्ञाय यदि पद्यं वदेत्कविः । केतकारुढकपिवत् भवेत्कण्टकपीडितः॥” इति । “कारणात्पञ्चभूतानामुद्भूता मातृका यतः। अतो भूतात्मका वर्णाः पञ्चपञ्च विभागतः । वाय्वनिभूजलाकाशा पञ्चाशल्लिपयः क्रमात् । पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धयस्तथा । तत्र स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः । चवर्गप्रभवः काव्यष्टवर्गाधन सम्भवः । तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्वरः । यवर्गजोऽयं शीतांशुरिति सप्तग्रहाःक्रमात् ॥” इति । अत्र तपःस्वा इति यगणः, आदिलघुत्वात् ।। तदुक्तम्-“आदिमध्यावसानेषु यरता यान्ति लाघवम् । भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्॥"इति । यगणप्रयोगवार्थकर इत्युक्तं चमत्कारचन्द्रि कायाम्-"करोत्यर्थानादिलघुर्यगणो वायुदेवतः" इति । ननु तपस्तापः सुतरामाधिः स्वाधिस्तयोराये निरतमिति ग्रन्थारम्भे अश्लीलवचनमनु चितम् । तदुक्तम्-" अश्लीलं यदमाङ्गल्यं जुगुप्साबीडभीकरम्” इति । मैवम्, प्रसिद्धिविशेषेण तपोवेदयोरेव प्रथमतरं बुद्धयारोहेणाश्लीलत्वप्रसङ्गा । तनः" इति । तस्य संबन्धि नारम्, परमात्मविषयकं ज्ञान ददाति उपदिशनीति नारदः । यद्वा नराणां संबन्धि नारं अज्ञानम् नत धनि खण्डयति विज्ञानोपदे शेनेति नारदः । तथा चोक्तं नारदीये-'गायनारायणकयां सदा पापभयापहाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः ॥” इति ॥ १ ॥
For Private And Personal Use Only