________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भः कलशीसुतः' इत्यादिव्यवहारस्य तत्प्रभवेऽपि बहुलमुपलब्धेः । उक्तं च ब्रह्मवैवर्ते"अथाब्रवीन्महातेजा ब्रह्मा लोकपितामहः । वल्मीकप्रभवो यस्मा टी.बा.का
तस्मादाल्मीकिरित्यसौ ॥” इति । मास्त्वपत्यार्थत्वम्, तथापि वाल्मीकिशब्दस्साधुरेख, गहादिषु पठितत्वात् । यद्वा भृगुवंश्यः कश्चित् प्रचेता सर्ग ? नाम तस्यायं पुत्रः ऋक्षो नाम । ' चक्के प्रचेतसः पुत्रः ' इति पुत्रत्वाभिधानात् । भार्गवभृगुनन्दनशब्दो रामे राघवरघुनन्दनशब्दव दुन्नेयौ । वाल्मीकिशब्दः पुत्रत्वोपचारात् । अतएव क्वचित् 'वाल्मीकेन महर्षिणा' इति सम्बन्धमात्रेऽण् प्रयुज्यते । सत्स्वपि नामान्तरेषु वाल्मीकिशब्देनाभिधानं ज्ञानाङ्गशमदमाद्युपेतत्वस्फोरणाय । परिपप्रच्छ परि विशेषेण पृष्टवान् । को न्वस्मिन्नित्यादिवक्ष्यमाणमिति शेषः। तप इति भिन्नं पदं वा ब्रह्मवाचि । नारदं ब्रह्म परिपप्रच्छेत्यर्थः । अतो न द्विकर्मकत्वहानिः । उक्तं हि वृत्तिकृता-" दुह्याचपच्दण्ड रुधिप्रच्छिचिशासुजिमथ्मुषाम् ।" इत्यादिना प्रच्छोर्दिकर्मकत्वम् । परिपप्रच्छेति परोक्षे लिट् । प्रश्नस्य परोक्षत्वं विवक्षितभगवद्गुणानुसन्धानकृत। विचित्यात्, 'सुप्तोऽहं किल विललाप'इतिवत् । विभक्तिप्रतिरूपकमव्ययं वा । स्वविनयव्यञ्जनाय प्रथमपुरुपनिर्देशो वा । “ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति" इतिवत् । स्वस्मिन्नन्यत्वमारोप्य परोक्षनिर्देशो वा । अनेन-" परीक्ष्य लोकान् कर्मचितान ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन।। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं ।। प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इत्याथर्वणिकी श्रुतिरूपसदनविषयोपवृह्यते । तथाहि-तपस्वीत्यनेन “ परीक्ष्य लोकान् कर्मचितान ब्राह्मणो निर्वेदमायात्" इत्यस्यार्थोऽदर्शि । अधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सातमोक्षाभिलाषो हि तपस्विशब्दार्थों वर्णितः। वाल्मीकिरित्यनेन “सम्यक प्रशान्तचित्ताय शमान्विताय" इत्यस्यार्थो दर्शितः । स्वाध्यायनिरतमित्यनेन श्रोत्रियपदार्थ उक्तः।"श्रोत्रियं *छन्दोऽधीते " इति श्रोत्रियशब्दार्थप्रकाशनात् । वाग्विदां वरमित्यनेन विद्वच्छन्दार्थः । मुनिपुङ्गवमित्यनेन ब्रह्मनिष्ठशब्दार्थः। नारदशन्देन गुरुशब्दार्थः। “गुशब्दस्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः। अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते" इति तन्निरुक्तिः। परिपप्रच्छेत्यनेन "तद्विज्ञा फलवदर्थावबोधपर्यन्ताध्ययनमुच्यते । तयोर्निरतम् एकाग्रचित्तम्, अनेन 'तप आलोचने ' इति धातोरुत्पन्नेन तपशब्देन ज्ञानपर्यायेण “सत्यं ज्ञानमनन्तं ब्रह्म"
इति ब्रह्मस्मरणात् विशिष्टेष्टदेवतास्मरणरूपं मङ्गलं कृतमित्यनुसन्धेयम् । तपस्वी प्रशस्ततपाः । वल्मीकस्यापत्यं वाल्मीकिः। तदुक्तं ब्रह्मवैवर्ते-“अथाब्रवी Kन्महातेजा ब्रह्मा लोकपितामहः । वल्मीकपभवो पस्मात्तस्माद्वाल्मीकिरित्यसौ ॥” इति । नारदम्-नरः परमात्मा, तदुक्तम्-" नरतीति नरः प्रोक्तः परमात्मा सना
7.
॥३॥
For Private And Personal Use Only