________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
उपदेशेऽशिति" इत्यात्वे सति "मातोऽनुपसर्गे कः" इति कप्रत्ययः। अज्ञाननिवर्तक इत्यर्थः। उक्तं च नारदीये-"गायनारायणकयां सदा पापभयाप हाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः॥” इति । यद्वा नारं ज्ञानं तददातीति नारदः। यद्वा नरति सदाति प्रापयतीति नरः परमात्मा।"नृ नये" इत्यस्माद्धातोः पचायच । तदुक्तं भारते " नरतीति नरः प्रोक्तः परमात्मा सनातनः ” इति । स एव नारः । तं ददात्युपदिशतीति नारदः, तम् । एवमाचार्यलक्षणपूर्तिमुक्त्वा अधिकारित्वसंपूर्तिप्रदर्शनाय शिष्यलक्षणमाइ-तपस्वीत्यादिना । तपोऽस्यास्तीति तपस्वी । “तपःसहस्राभ्यां विनीनी" इति मत्वर्थीयो विनिप्रत्ययः । भूमादयो मत्वर्थाः । तदुक्तम् “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥" इति । प्रशस्ततपस्क इत्यर्थः। तेन “तपसा ब्रह्म विजिज्ञासस्व स तपोऽतप्यत स तपस्तत्वा आनन्दो ब्रह्मेति व्यजानात्" इति श्रुतं ब्रह्मज्ञानसाधनं तप उक्तम् । यदा तपो वेदो व्याकरणं ज्ञानं च, तद्वान् । तपशब्दानां तन्त्रावृत्त्येकशेषाद्यन्यतमेन अर्थस्मरणे सति एकपदोपात्तकृतिकालादीनामिव अन्वयबोधः सुलभः । तथा च अधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञान इत्युक्तम् । निवेदश्च तपः। "तपस्वी तापसे शोच्ये" इति वैजयन्ती । तेन सातमोक्षाभिलाष इत्युक्तम्, तादृश एव हि ब्रह्मज्ञानाधिकारी । तपस्वीत्यनेन शमदमादिसंपत्तिरपि सिद्धा। यद्वा तपो न्यासः। “तस्मान्यासमेषां तपसामतिरिक्तमाहुः" इति श्रुतेः । न्यासः शरणागतिः प्रणिपातरूपा, एवं तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया' इत्यायुक्तानि प्रणिपातपुरःसराणि दर्शितानि । वल्मीकस्यापत्यं वाल्मीकिः । “अत इभ्" इतीप्रत्ययः । नन्वसौ कथं वल्मीकापत्यम्, यतोऽयं भृगुपुत्र एवं प्रतीयते । तथा च श्रीविष्णुपुराणे-"ऋक्षोऽभूद्भार्गवस्तस्मादाल्मीकियोऽभिधीयते” इति । अत्रापि उत्तरकाण्डे वक्ष्यति भार्गवणेति संस्कृतौ । भार्ग। वेण तपस्विना" इति च । अन्यत्र च प्रचेतोऽपत्यत्वमभिधीयते "चक्के प्रचेतसः पुत्रस्तं ब्रह्माप्यन्वमन्यत" इति । “वेदःप्राचेतसादासीत्" इति च प्रसिद्धम् । अतः कथमस्य वल्मीकापत्यत्वम् ? उच्यते-निश्चलतरतपोविशेषेणास्य वल्मीकावृतौ जातायां प्रचेतसा वरुणेन कृतनिरन्तरवर्षेण प्रादुर्भावोऽभूदिति भृयुपुत्रस्यैवास्य प्रचेतसोऽपत्यत्वं वल्मीकापत्यत्वं च सङ्गच्छते । ननु कथं तत्प्रभवत्वमात्रेण तदपत्यत्वम् ? मैवम्, 'गोणीपुत्रः विंशतिसयाका गायत्रीवर्णसंयुताः । ये श्लोकाः सन्ति तानत्र विलिखामि यथाक्रमम् ।। श्लोके च प्रतिसाहनं प्रथमे प्रथम क्रमात् । गायत्र्यक्षरमेकैकं स्थापयामास वे मुनिः॥ गायत्र्यास्त्रीणि चत्वारि देदे त्रीण्यथ पद क्रमात् । चत्वारि सप्तकाण्डेषु स्थापितान्यक्षराणि तु॥" तत्र तदिति गायत्र्याः प्रथमाक्षरम्-तपास्वाध्यायति। अत्र तपाशब्देन चित्तप्रसादहेतुभूतं व्रतनियमोपवासादि कर्मोच्यते, “ यस्य ज्ञानमयं तपः" इति श्रुतेः । तपशब्देन ब्रह्मविषयकज्ञानमच्यते । स्वाध्यायशब्देन
For Private And Personal Use Only