________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥ २ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अथ " यदधीतमविज्ञातं निगदेनैव शब्दयते । अनग्राविव शुष्केधो न तज्ज्वलति कर्हिचित् ॥” इति केवलाध्ययनस्य निन्दितत्वात्तदर्थज्ञत्वमाहवाग्विदां वरमिति । वाग् वेदः। "अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा” इति वाक्शब्दस्य वेदे प्रयोगात् । तां विदन्ति जानन्तीति वाग्विदः वेदा अर्थज्ञाः तेषां मध्ये वरं श्रेष्ठम् । निर्द्धारणे षष्ठी । यद्वा वाक् व्याकरणम् । " यश्च व्याकुरुते वाचम् । वाग्योगविदुष्यति चापशब्दैः ” इत्यादौ व्याकरण पर्यायत्वेन शिष्टैर्व्यवहृतत्वात् । एतदङ्गान्तराणामुपलक्षणम्, षडङ्गविदामप्रेसरमित्यर्थः । एतेन वेदार्थाभिज्ञत्वमर्थसिद्धम् । यद्वा वाग्विदः यावद्वि विक्षितार्थप्रतिपादनक्षमशब्दप्रयोगविदः, तेषां वरम् । पूर्व वेदाध्ययनमुक्तम्, अत्र तदध्यापनम् । यद्वा गोबलीवर्दन्यायेन वाचः वेदव्यतिरिक्तानि शास्त्राणि, तद्विदां वरम् । अनेन चतुर्दशविद्यास्थानवेदित्वमुक्तम् । यद्वा भूमविद्योपक्रमे नारदेनात्मनः सर्वविद्याभिज्ञत्वमुक्तम् । “ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेद्माथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशि देवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि " इति । तदिदमुच्यते वाग्विदां वरमिति । यद्वा वाक् सरस्वती " गीर्वाग्वाणी सरस्वती" इति वचनात् । तया विद्यन्ते लभ्यन्त इति वाग्विदः सरस्वतीपुत्रा मरीच्यादयः । “विदऌ लाभे" इत्यस्माद्धातोः कर्मणि क्विप् । भगवद्भक्ततया तेषां वरम् । अनेनाभि जात्यमुक्तम् । तपःस्वाध्यायनिरतमित्यनेन विद्योक्ता । समाहितत्वमाह मुनिपुङ्गवमिति । तेन" अभिजनविद्यासमुदेतं समाहितं संस्कर्त्तारमीप्सेत् " इत्यापस्तंवोक्तमाचार्यलक्षणं ज्ञापितम् । मुनयो मननशीलाः । "मनेरुञ्च" इति इन् प्रत्ययः । पुमांश्चासौ गौश्वेति पुंगवः “गोरतद्धितलुकि” इति समा! सान्तष्टच प्रत्ययः । श्रेष्ठ इत्यर्थः । “बुधे च पुङ्गवः श्रेष्ठे वृषभे भिषजां वरे । ” इति विश्वः । सुनिषु पुङ्गवो मुनिपुङ्गवः । “सप्तमी" इति योगविभागात् | नागोत्तमादिवत्समासः, तम्। तपःस्वाध्यायनिरतमित्यनेन वेदार्थस्य श्रवणमुक्तम् । वाग्विदां वरमित्यनेन मननम् । मुनिपुङ्गवमित्यनेन निदिध्यासनम् । यद्वा तस्माद्राह्मणः पांडित्यन्निर्विद्य बाल्पेन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्युक्तक्रमेण त्रिभिरेतैः पदैः पाण्डित्यबाल्यमौनान्यु क्तानि । नरस्य सम्बन्धि नारम् “नराच्चेति वक्तव्यम्" इत्यण्, अज्ञानमित्यर्थः । तत् द्यति खण्डयतीति नारदः । “दो अवखण्डने" इत्यस्माद्धातोः “आदेच कौवदर्शनजनितशोकस्य वाल्मीकेर्वदनान्मानिषादेति श्लोक उदभूत । ततः स्वाश्रममागत्य तमेवानुसन्दधानः सार्वस्मयमास्त । अथ भगवांश्चतुमुर्ख आगत्य " मच्छन्दादेव ते ब्रह्मन्" इत्यभिधाय 'रामचरितं सर्व विदितं भवतु' इति वरं प्रदाय पद्यैरेव रामायणं कुर्वित्युपदिश्य स्वधाम जगाम । अथ चतुर्विंशत्यक्षर गायत्र्याख्यपरब्रह्मविद्याविलासभूतं रामायणं चतुर्विंशतिसहस्रैः लोकेश्वकार । तदिदं व्याक्रियते तपःस्वाध्यायेत्यादिः गायत्रीवर्णसहित श्लोकसङ्केत:-" चतु
For Private And Personal Use Only
टी.वा.कां. स० [१
॥ २ ॥