________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ पारिप्सितस्य ग्रन्थस्व निष्पत्यूहपरिपूरणाय प्रचयगमनाय च गुरुनमस्कार देवतानमस्कारं च विदधाति-तपस्स्वाध्यायेति । तत्र "आचार्या देव विद्या विदिता साधिष्ठं प्रापद” “आचार्यवान् पुरुषो वेद" इत्यादिश्रुत्या सदाचार्योपदेशस्यैवातिशयावहत्वात्स्वगुरोराचार्यलक्षणपूर्ति दर्शयति द्वितीयान्तपदैः । तत्र वेदसंपन्नत्वमाह तपःस्वाध्यायनिरतमिति । तपश्च स्वाध्यायश्च तपःस्वाध्यायो "अल्पाच्तरम्” इति तपःशब्दस्य पूर्व निपातः । तपःचान्द्रायणादि, स्वाध्यायो वेदः । “स्वाध्यायो वेदतपसोः" इति वैजयन्ती । तयोनिरतं निरन्तरासतम् । आवश्यकत्वादेतदुभयमुक्तम् । तदाइ मनु:-"तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा कल्मषं हन्ति विद्यया ज्ञानमश्नुते" इति । यद्वा तपो ज्ञानम् । “तप आलोचने" इत्यस्मादातोरसुन्प्रत्ययः । श्रुतिश्चात्र भवति “ यस्य ज्ञानमयं तपः" इति । योग इति यावत् । स्वाध्यायो वेदःतयोर्निरतम् । “स्वाध्यायाद्योग मासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसम्पत्त्या गमिप्यति परां गतिम् ॥” इत्युक्तप्रकारेण सक्तमित्यर्थः। यद्वा तपो वेदः, “तपो हि स्वा ध्यायः " इति श्रुतेः । स्वाध्यायो जपः । “ स्वाध्यायो वेदजपयोः " इत्युक्तेः। तत्र निरतम् । “ स्वाध्यायान्मा प्रमदः । वेदमेव जपेन्नित्यम्" इत्युक्त रीत्या सक्तमित्यर्थः । यदा तपो ब्रह्म "ब्रह्मैतदुपास्वैतत्तपः" इति श्रुतेः । तपःप्रधानः स्वाध्यायस्तपःस्वाध्यायः । शाकपार्थिवादित्वान्मध्यम पदलोपी समासः । वेदान्त इति यावत्, तत्र निरतम् । “स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्" इत्युक्तरीत्याध्ययनाध्यापनादिपरमित्यर्थः । यदा तपो व्याकरणम् । तथोक्तं वाक्यपदीये-"आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः। प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः॥” इति, तदितरेषामङ्गाना । मुपलक्षणम् । तत्सहितः स्वाध्यायः तपःस्वाध्यायः तत्र निरतम्, साङ्गवेदाध्यायिनमित्यर्थः । यद्वा तपः स्वं यस्यासौ तपःस्वः, अध्यायो वेदः "इङ अध्ययने " इत्यस्माद्धातोः “अध्यायन्याय-" इत्यादिना निपातनात् । अतएव "स्वाध्यायोऽध्येतव्यः" इत्यत्र स्वस्य अध्यायः स्वाध्यायः, स्वशाखे त्याचार्ययाख्यातम् । तत्र निरतोऽध्यायनिरतः । तपःस्वश्चासावध्यायनिरतश्च तपःस्वाध्यायनिरतः इति कर्मधारयः, तम् । यदा तपो ब्रह्म, तद्रूपः स्वाध्यायः तपस्वाध्यायः तस्मिन् निरतम्, सामगानलोलमित्यर्थः। " वेदानां सामवेदोऽस्मि” इति भगवता गीतत्वात् । एवं वेदाध्ययनमुक्तम् ॥ "वाल्मीकिरभवब्रह्मा वाणी वाक्तस्य रूपिणी । चकार रामचरितं पावनं चरितत्रतः ॥” इति । एवव ब्रह्मांशभूतो भगवान् प्राचेतसः स्वचिकीर्षितं श्रीरामचरितं । गुरुभुखाचकोतव्यमिति न्यायेन भगवत्कयोपदेशेन स्वगुरूं नारदं प्रतीक्षमाण आस्ते स्म । अथ ब्रह्मनियोगेन समागतं भगवन्तं नारदमभ्यर्च्य वाल्मीकिः कोन्ध स्मित्रित्यादि पप्रच्छ । स च देवर्षिः परमेश्वरकथाप्रश्नमुदितमनाः श्रीरामचरितं संक्षिप्य वाक्यरूपेणोपदिश्य जगाम । तदनु तमसातीरमुपसृत्य चरतो व्याधविद्ध
P
For Private And Personal Use Only