SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ॥ स्मार्त- माध्वादीनां श्रीरामायणपठनोपक्रमानुसंधेयक्रमः ॥ श्री महागणपतिध्यानम् - शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये || वागीशाद्याः सुमनसः सर्वार्थाना ७ सुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ अनन्तरं श्रीमच्छङ्करभगवत्पादादिगुरुपरम्पराऽनुसन्धेया ॥ 11 सरस्वतीप्रार्थना - दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासाकुन्देन्दु शङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ वाल्मीकिनमस्त्रिया-कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ वाल्मीकेर्मुनिसिंहस्य कविता वनचारिणः । शृण्वन् रामकथानादं को न याति परां गतिम् ॥ यः पिवन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् || हनुमन्नमस्त्रिया - गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ उल्लङ्घय सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् | आञ्जनेयमतिपाटलाननं काञ्चनाद्विकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् । यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ 11 11 ॥ श्रीरामायणप्रार्थना - यः कर्णाञ्जलिसंपुटैरहरहः सम्यक् पिबत्यादराद्वाल्मीकेर्वदनारविन्द्गलितं रामायणाख्यं मधु । जन्मव्याधिजराविपत्तिमरणे ॐ रत्यन्तसोपद्रवं संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम् ॥ तदुपगत समाससन्धियोगं सममधुरोपनतार्थवाक्यवद्धम् । रघुवरचरितं मुनि प्रणीतं दशशिरसश्च वधं निशामयध्वम् । वाल्मीकिगिरिसम्भूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामायणमहानदी ॥ श्लोकसारसमाकीर्ण सर्ग कल्लोलसंकुलम् । काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥ वेदवेये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥ श्रीरामध्यानक्रमः - वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् || वामे भूमिसुता पुरश्च हनुमान् पश्चात्सुमित्रासुतः शत्रुनो भरतश्च पार्श्वदलयो For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy