SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चा. रा. पा. ॥१॥ www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ॥ श्रीवैष्णवानां पारायण समापनक्रमः ॥ एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रन्धं बलं विष्णोः प्रवर्धताम् || लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवर श्यामो हृदये सुप्रतिष्ठितः ॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥ कावेरी वर्धतां काले काले वर्षतु वासवः । श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्व वर्धताम् ॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोत्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् || वेदवेदान्तवेद्याय मेघश्यामलमूर्तये । पुंसां मोहनरूपाय पुण्य श्लोकाय मङ्गलम् ॥ विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः । भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् || पितृभक्ताय सततं भ्रातृभिः सह सीतया । नन्दिताखिललोकाय रामभद्राय मङ्गलम् | त्यक्तसाकेतवासाय चित्रकूटविहारिणे । सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम्।। सौमित्रिणा च जानक्या चापबाणासिधारिणे । संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ दण्डकारण्यवासाय खण्डितामरशत्रवे । गृधराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥ सादरं शबरीदत्तफलमूलाभिलाषिणे । सौलभ्यपरिपूर्णाय सत्त्वोद्विक्ताय मङ्गलम् ॥ हनुमत्समवेताय हरीशाभीष्टदायिने । वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥ श्रीमते रघुवीराय सेतूहङितसिन्धवे । जितराक्षसराजाय रणधीराय मङ्गलम् ॥ आसाद्य नगरी दिव्यामभिषिक्ताय सीतया राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अघनाः सघनाः सन्तु जीवन्तु शरदां शतम् ॥ For Private And Personal Use Only विधि० 手ㄇ气接 मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः । सर्वेश्व पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ ततः पितामहस्येत्यारभ्य स्वाचार्यान्ताः श्रोका अनुसन्धेयाः ॥ सीताविवाहपट्टाभिषेकसर्गयोस्तु - 'इयं सीता मम सुता सहधर्मचरी तव । प्रतीच्छ चैनां भद्रं ते पाणिं गृहीष्व पाणिना । " अभ्यषिञ्चन् नरव्यात्रं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ' इति श्लोकपठनात् पूर्व मध्ये विशेषतो भगवदाराधनं च कर्तव्यम् ॥
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy