________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥ श्रियै नमः। श्रीवैष्णवानां श्रीरामायणपठनोपक्रमानसन्धेयक्रमः।
प्रथमतः स्वस्वसंप्रदायनिर्वाहकाचार्यानुसन्धानम् । ततः लक्ष्मीनाथेत्यारभ्य प्रणतोऽस्मि नित्यमित्पन्तम् । अनन्तरं श्रीशैलपूर्णविषयं पितामह शस्येति चोकमारभ्य श्रीभाष्यकारप्रभृतिस्वाचार्यपर्यन्तविषयाः साम्प्रदायिकश्चोका अनुसन्धेयाः ॥ जयद्वा श्रीधरादिस्वाचार्यपर्यन्ताः प्रतिव्यक्ति श्लोका अनुसन्धेयाः ॥
ततः, कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ वाल्मीकेमुनिसिंहस्य कवितावनचारिणः । शृण्वन् । शरामकथानादं को न याति परां गतिम् ॥ यः पिबन्सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनि वन्दे प्राचेतसमकल्मषम् ॥ गोष्पदीकृतवाराशिं मशकी कृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ अन्ननानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयंकरम् ॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ उल्लङ्मय सिन्धोः सलिलं सलीलं यः। शोकवाह जनकात्मजायाः। आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराजनेयम् ॥ आञ्जनेयमतिपाटलाननं काञ्चनादिकमनीयविग्रहम् । पारि जाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकालिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षा सान्तकम् ॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत्साक्षादामायणात्मना ॥ तदुपगतसमाससन्धियोगं सममधुरोपनतावाक्यबद्धम् ।। शरघुवरचरितं मुनिप्रणीतं दशशिरसश्च वघं निशामयध्वम् ॥ श्रीराघवं दशरथात्मजमप्रमेयं सीतापति रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददला शयताक्षं रामं निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति।
प्रभअनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ततो यथाशक्ति श्रीकोशोपरि भगवदाराघनं कर्तव्यम् ॥
For Private And Personal Use Only