SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.वि. ॥१४॥ अनुक्र यु.का. प्रेक्ष्य मुग्रीवणातीव शक्तिनानुचरैः सह तदधाय प्रयत्न, तावदाकाशस्थस्यैव विभीषणस्यातिदुष्टरावणमंबन्धम, तद्धितोपदेशप्रतिक्रियारूपतया तत्कृतमवमानं च पुरस्कृत्य परित्यक्तत्याज्यस्य गृहीतग्राह्यस्य परिगृहीतमुग्रीवादिपुरुषकारस्य स्वस्याकिञ्चनस्यानन्यगतिकस्य श्रीराम एवं शरणमित्थुद्धोषणम्,तच्छतवता सुग्रीवेण श्रीराममन्निधी तच्छणागतिनिवेदनपूर्वक तस्प रावणानुजतया मद्य एवं वध्यता युक्तेति सनीतिवचनम्, अथ तच्छ्वणसंक्षुब्धमनसा शरणागतरक्षणदीक्षितेन रघुवीरेणाङ्गदजाम्बवच्छरभमैन्द हनुमदादीन प्रति स्वस्वाभिमतकथनाय नियोजनम, १. अथानन्दादिभिः शत्रुपक्षाददेशकाले समागतोऽयं विभी पणः सर्वथा परीक्षाई एवेति कथनं, ततो हनुमला मुग्रीवन्यायेन राज्याभिलाषेणैवायमागतो विभीषणः अपरिग्राह्य एवति निगमितामत्यभ्यधत्त सप्तदशे ___ अथ श्रीरामेण शरणागतसंरक्षणमेव स्वस्य महा तमिति कथितवता स्वप्रेमकलुषितं सुग्रीवहृदयं म्बकीयसर्वशक्तताप्रदर्शनेन कपोतारुयानकण्डुगाथानदर्शनादिभिश्च निष्कल्मषीकृतवता सुग्रीवं पत्ति विभीषणानयनाय नियोजनं चोवाचाष्टादशे al अथ विभीषणस्य श्रीरामसमागम, तदैव श्रीरामनियुक्तेन लक्ष्मणेन विभीषणस्य सर्ववानरमध्ये लङ्काराज्याधिराजतया समुद्रजलेनाभिषेचनम्, अथ सुप्रीव | लक्ष्मणाभिमतस्य विभीषणोपदिष्टस्य समुद्रतरणो- पायस्य तच्छरणागतिरूपस्य श्रीरामेणाङ्गीकरणं चाकययदेकोनविंशे ___ अथ शार्दूलाख्येन चारेण समुद्रतीरमागतं ससैन्य रघुनन्दनं श्रुतवता रावणेन प्रेषितस्य शुकस्प शुकरूपस्य राक्षसस्य रामसेनावकाशमागतस्य सुग्रीवं प्रति राव. गोक्तभेदकवचनसमर्पणम्, तावदेव वानरैस्तद्धननाय प्रयत्न, ततस्तदीयातघोषश्रवणद्भुतहृदयेन सदयेन श्रीरामेण तन्मारणहरणं चाह विशे अथ सागरतीरे त्रिरात्रं दर्भेषु शयितस्प जानकीदायितस्य तावताप्यप्रत्यक्षं समुद्राध्यक्षं देवमुद्दिश्यातिकोपेन सागरोपरि कालानलकल्पानां वेगेनानल्यानां वाणानां प्रयोगं तेन संजातं समुद्रक्षोभं ताबल्लक्ष्मणेन | रामकोपानलनिर्वापणाय प्रयत्न चाचीकशदेकविंशे ___अथ तथाप्यनाविर्भूतं प्रभूतमदमुद्रं समुद्र प्रति | श्रीरामेण ब्रह्मास्त्रमन्त्रितस्य नियमयन्त्रितस्य शरवरस्य धनुपि संधानं, ततः सर्वलोकसंक्षोभं, ततः प्रत्यक्षतामागतेनापां निधिना विधिना राममुपपमेन सेतुबन्धनाय नलं नियोजितवता स्वात्मोपरिप्रतिसंहितं ब्रह्मास्त्रं कस्मिंश्चिन्मरुदेशे वियोजितवताऽन्तर्धानम्, ततो वानीनलमुपधाय नानावृक्षलताशुल्मगण्डशैलशिखरशिखरिनिकरपरिकरः पञ्चभिरहोभिरामुवेलमातविशालस्य | सकललोकमहेतोः सेतोनर्माणम्, अथ हनुमन्तमङ्गदं | चाधिरूदाभ्यां रामलक्ष्मणाभ्यां सुग्रीवेण निखिल वानरसेनया च सह तेनैव सेतुना सागरतरणम्, सेनायाः १९ सुवेलामान्ने निवेशनं, तत्तादृशं सेतुबन्धनं निरीक्ष्य विस्मयपरव0निर्जरबातेः श्रीरामसंस्तवं च समदर्शयहाविशे एवं रामो नलसेतुना तीर्णमहार्णवो महासमरसूचकान महोत्पातान् दृष्ट्वा चिरमार्थितामीष्टसिद्धिर्भविव्यतीति संतुष्टो दृष्टानि निमित्ताने लक्ष्मणायादर्शयदिति दर्शयामासत्रयोविंशे अथात्युन्नतत्रिकूटशिखरिशिखरामभुवि विश्वकर्मणा निमितालको लक्ष्मणाय संदर्शयता तद्दर्शनजनितसीतादुर्दशास्मरणकन्दलितसमरत्वरेण रघुबरण बलौघस्य शिरःपक्षपुच्छादिरूपेण विभागपूर्वक २१ मुग्रीवं पति रावणचारभूतशुकमोचनाय नियोजनम्, ततो विमुक्तेन शुकेन रावणसमीपं गतेन वानरसेनाया असाध्यतां सागरेण सेतुबन्धनं तन्मार्गेण तीर्णसमुद्रस्य श्रीरामस्य ससैन्यस्य सुवेलोपान्ते निवेशनं च निवेद्य गमाय सीताप्रदानमेव कर्तव्यमिति रावणाय विज्ञापनं, तावत्परिकुपितेन रावणेन तदधिक्षेपणं चाह चतुर्विंशे अथ पुना रावणहिताभ्यां शुकसारणाभ्यां वानरसैन्यं प्रविष्टाभ्यां विभीषणेन गृहीत्वा वध्यत्वेन रामसमीपं नीताभ्यां तदा यथार्थवचनप्रीतेन श्रीरामेण | विभीषणमेव सहायीकृत्य सर्ववानरसेनापरिझानपूर्वक १८ ॥१४॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy