SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra IZA श्रीरामस्य सदा सीताशोकपारवश्यनिवेदनं ततः स्थानापरिज्ञानमेव अनानयनकारणमिति समाश्वासनं च पत्रिंशे ३६ अथ सीतया स्वस्था रावणकृतमासद्वयात्मकजीवि तानुग्रहकालनिवेदनं ततः स्वपृष्ठमारोप्य रामसन्निधिं नयामीति हनुमता प्रार्थनं, ततो देव्या रामेणैव रावणविध्वंसनपूर्वकं स्वानयनं कर्तव्यमिति प्रतिवचनदानं च कृतमिति कथा सप्तत्रिंशे अथ हनुमता देवीं प्रति श्रीरामाय प्रत्यभिज्ञानप्रार्थनं, ततो देव्या काकासुर वृत्तान्तकथनपूर्वकं चूडामणिप्रदानं चाष्टात्रिंशे अथ देव्या हनुमन्तं प्रति वानरसैन्यस्य रामलक्ष्मणयोश्व समुद्रलङ्घनं कथमिति प्रश्नकरणं, ततस्तेन वानराणां सर्वत्राप्रतिहतगमनकथनं, स्वस्कन्धमारुह्य रामलक्ष्मणयोरागमनपूर्वकं श्रीरामो रावणं हत्वा पुरीं यास्यतीति समाधानं चैकोनचत्वारिंशे अथ सीताया हनुमद्वचनश्रवणेन सन्तोषजननं, पुनः कदाचित् श्रीरामेण मृष्टतिलकायाः स्वस्था मनःशिलया तिलकनिर्माणकथनं, स्वोत्तारणत्वराकरणप्रार्थनपूर्वकं हनुमद्रमनाभ्यनुज्ञानं, ततो हनुमता स्वकर्तव्यकार्यशेषचिन्तनं च चत्वारिंशे अथ हनुमता रावणहृदयपरिज्ञानाय तत्समीपगमनभाषणाद्यपेक्षाचिन्तनं, वदौपयिकतया अशोकवनिकाविध्वंसनं चैकचत्वारिंशे ३७ ३८ ३९ ४० ४१ www.kobatirth.org अथ रावणेन राक्षसीगणमुखादशोकवनिकाभङ्गवृत्तान्तश्रवणं, ततस्तेन प्रेषिताशीतिसहस्रसंख्याककिङ्कराख्यराक्षसानां हनुमता विध्वंसनं द्विचत्वारिंशे अथ हनुमता चैत्यमासादस्थराक्षसविध्वंसनं त्रिचत्वारिंशे अथ हनुमान् स्वविध्वंसितकिंङ्कराख्पराक्षसगणवृत्तान्तश्रवणकुपितरावणप्रेषितं प्रहस्तपुत्रं जम्बुमालिनामानमवधीदिति कथा चतुश्चत्वारिंशे अथ हनुमान् रावणप्रेषितान् सप्तमन्त्रितान् जघानेति कथा पञ्चचत्वारिंशे अथ हनुमान् रावणप्रेरितान् विरूपाक्षयूपाक्षदुर्धर प्रभासकर्णाख्यान पञ्चसेनानायकान् प्रमापयामासोत कथा पचत्वारिंशे अथ हनुमान् अक्षकुमारमवषीदिति कथा सप्त चत्वारिंशे अथ हनुमानिन्द्रजिता ब्रह्मास्त्रेण वद्धः सन् रावणान्तिकं नीत इति कथाऽष्टचत्वारिशे अथ हनुमान रावणं दृष्ट्वा तदीयतेजोविशेषेणातीव विस्मितोऽभूदिवि कथा एकोनपञ्चाशे अथ प्रहस्तेन हनुमन्तं प्रति कस्य दूतस्त्वमिति मनकरणं, ततो हनुमता रावणं प्रति रामदूतोऽहमिति | कथनं च पञ्चाशे For Private And Personal Use Only ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५० Acharya Shri Kalassagarsuri Gyanmandir अथ हनुमता रावणं प्रति रामवनवासप्रभृति स्वागमनपर्यन्तवृत्तान्तकथनपूर्वकं रामाय सीतासमर्पणं दिसमित्युपपादनं ततः सीताया अप्रदाने रावणप्राणत्राणं दुःशक्यमित्युपदेशकपञ्चाशे अथ रावणेन हनुमवायाज्ञापनं, ततो विभीषणेन दूतवर्धस्य गतिताप्रदर्शनपूर्वकं वैरूप्यकरणादेरेव युक्तताप्रदर्शनं, ततो रावणेन तदङ्गीकरणं च द्विपञ्चाशे ५२ अथ राक्षसेः रावणाज्ञया जीर्णपटादिभिर्हनुमत्पुच्छसंवेष्टन तेल सेचनानिसंयोजनपूर्वकं लङ्कायां सर्वतो नयनं ततो राक्षसीभिः सीतायै तट्टत्तान्तकथनं, ततो देव्या हनुमतो दादाभावायाग्न्युपासनं, ततः प्रदीप्तमपि वालस्थमा पीडामकुर्वन्तं प्रसमीक्ष्य हनुमता सीताराममभावादः शीतलतति निश्चयकरणं, ततोऽ तिहस्वी भवनाद्विनिर्धूतनिखिलबन्धनतया नगरपरिघनिपातेन निखिलरक्षोवर्गविध्वंसनं च त्रिपञ्चाशे अथ हनुमता स्वलांगूलप्रज्वलदग्निना विभीषणगृहमन्तरा रावणगृहप्रभृति समस्तराक्षसगृहभस्मीकरणं चतुष्पञ्चाशे अथ हनुमता जानक्याप दग्धेत्यन्तस्तापकरणं, ततश्चारणवचनैजनपदाह श्रवणपूर्वकं प्रत्यक्षतः सीतासंदर्शनं, ततः प्रतिप्रयाणसंकल्पश्च पञ्चपञ्चाशे अथ हनुमता स्वचरणनिपीडनेन सत्यमरिष्टाख्यं धरणीधरं धरणीसममातन्वताऽऽकाशसरणिगमनं षट्पञ्चाशे ५६
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy