SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir पा.रा.भ. ॥१७॥ रात्र्यन्तादचसमासान्तः । अत्यन्तसंयोगे द्वितीया ॥ १ ॥ राजवचनात् जनकोऽस्मानिह प्रेषितवानिति स्वराजसङ्कीर्तनात् ॥२॥ विगतसाध्वसा- टी.बा.का. दशरथसौजन्येन विज्ञापने निर्भयाः॥३॥ मैथिल इत्यादि श्लोकद्वयमेकान्वयम् । मैथिलः मिथिलेश्वरः । पुरस्कृताग्रिहोत्रसहितः साग्निहोत्रपुरस्कृतःस०६८ आहिताम्यादित्वात्रिष्टायाः परनिपातः । पुरस्सरन्तीति पुरस्सरा भृत्याः, तत्सहितम् । एवम्भूतं त्वां कुशलं क्षेमम् अव्ययं अनपाय, योगमिति ते राजवचनाद्वृता राजवेश्म प्रवेशिताः । ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥२॥ बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः।राजानं प्रयता वाक्यमब्रुवन् मधुराक्षरम् ॥ ३॥ मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् । कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ ४॥ मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा । जनकस्त्वां महाराजा पृच्छते सपुरःसरम् ॥ ५॥ दृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः । कौशिकानुमते वाक्यं भवन्तमिद मब्रवीत् ॥६॥ पूर्व प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥७॥ सेयं मम सुता राजन विश्वामित्रपुरस्सरैः। यदृच्छयागतैवीरैनिर्जिता तव पुत्रकैः॥८॥ यावत् । आपृच्छते मवचनादितिशेषः। “आङिनुपृच्छ्योरुपसङ्ख्यानम्" इति आत्मनेपदम् । अत्र द्वितीयजनकशब्दो विप्रकृष्टजनकशब्दा विस्मरणार्थः॥४॥५॥ कौशिकानुमते कोशिकानुमत्या ॥६॥ पूर्वमिति । वीर्यशुल्केति मम प्रतिज्ञा भवद्भिर्विदिता । राजानश्च निवर्याः धनुरा रोपणासमर्थाः, विमुखीकृता इत्यपि विदितमित्यन्वयः ॥७॥ सेयमिति । सेयं उक्तरीत्या सर्वैः प्रार्थनीया । मम सुता त्वया सह सम्बन्धाईस्य मे पुत्री। मैथिल इति । साग्निहोत्रपुरस्कृतं साग्निहोत्रं च तत्पुरस्कृतं चेति कर्मधारयः । सपुरस्सरं सपरिकरम् । अत्र वाक्ये द्वितीयजनकशब्दः विप्रकृष्टजनकशब्दाविस्मर णार्थः ॥४-६॥ पूर्वमिति । वीर्यचुल्केंति मम प्रतिज्ञा भवद्भिर्विदिता, राजानश्च निर्वीर्याः धनुरारोपणासमर्थाः। विमुखीकृता इति यावत् । तदपि विदित मित्यर्थः॥ ७॥ सेयमिति । यदृच्छया देवादागतैः पुत्रकैः । काकपक्षधरेणेकेनैव तव पुत्रेण श्रीरामचन्द्रेणेत्यर्थः । मम सुता निर्जिता वीर्यशुल्केन स्ववशीकृता । ॥१४॥ निर्जिता तव पुत्रकरित्यत्र कामत्ययस्याल्पार्थे विधानात् । निर्जेतुरेकत्वादेकवचनेन भाव्यम्, रघुवरेण सहामतत्वादुपचारेण लक्ष्मणस्यापि जेतृत्वे सति । विषम-पुरस्कियन्त इति पुरस्कताः कदवा, अग्निहोत्रपदेन तसाधनविजः : महित प्रत्यर्थः ॥५॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy