________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥१६९॥
निश्चितः तपःसिद्धये सर्वथैवानं दातव्यामिति निश्चयवानित्यर्थः। निश्चितः अशङ्कित इति वा निःशेषित इत्यनेन सर्वमन्नमिन्द्रेण याचितमिति गम्यते । अभु टी.बा.का त्वेति पुनः पाकाईतण्डुलासम्पादनादिति भावः॥६॥७॥ आदीपितं तारतम् ॥८॥ तत इत्यादि । तपसा तेजसा तपोरूपाग्निना । मोहिता मूछिताः। स०६५ तस्मै दत्त्वा तदा सिद्धं सर्व विप्राय निश्चितः । निःशेषितेऽन्ने भगवानभुक्कैव महातपाः। न किञ्चिदवदद्विप्रं मौन व्रतमुपस्थितः ॥ ६ ॥ अथ वर्षसहस्रं वै नोच्छ्रसन मुनिपुङ्गवः ॥७॥ तस्यानुच्छ्रसमानस्य मूर्ध्नि धूमो व्यजा यत। त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ॥८॥ ततो देवास्सगन्धर्वाः पन्नगासुरराक्षसाः । मोहिता स्तेजसा तस्य तपसा मन्दरश्मयः । कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥ ९॥ बहुभिः कारणैर्देव विश्वामित्रो । महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते । न ह्यस्य वृजिनं किञ्चिदृश्यते सूक्ष्ममप्यथ ॥१०॥ न दीयते यदि त्वस्य मनसा यदभीप्सितम्। विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥११॥ व्याकुलाश्च दिशः सर्वा
न च किञ्चित्प्रकाशते । सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ १२॥ Mकश्मलोपहताः दुःखोपड़ताः॥९॥ लोभितः लोभकारणैः रम्भादर्शनादिभिः प्रलोभितः।क्रोधितः क्रोधकारणैर्वर्षसहस्रान्तसिद्धकृत्स्नान्नयाचनादिभिः । Mकोधितः। वृजिनं पापं रागद्वेषादिलक्षणम् । सूक्ष्मं स्वल्पम् ॥३०॥ विनाशयति विनाशयेत् । असावितिः पः॥११॥व्याकुला इत्यादि । न प्रतिजानीमः
तस्मा इति । सिद्धं पक्वम् । निश्चितः अशङ्कितः ॥ ६ ॥ अथेति । नोच्छसत् नोपाश्वसत् ॥ ७ ॥ तस्यति । येन धूमेन आदीपितमिव सन्तप्यमानामिव, संभ्रान्तं व्याकुलितम् ॥ ८ ॥ तत इति । तपसा तेजसा तपोरूपेणाग्निना, मन्दरश्मयः क्षीणतेजस्काः। कश्मलोपहताः मोहाक्रान्ताः ॥ ९ ॥ बहुभिरिति । कारणैर्लोभकारणैः। लोभितः क्रोधितः सन्नपि तपसाभिवर्धते अस्य सूक्ष्ममपि वृजिनं स्खलनं न दृश्यम् ॥ १०॥ नेति । विनाशयति विनाशयेत ॥ ११ ॥ व्याकुला इति । नास्तिकः नास्ति परो लोक इति मन्यमानः, कार्याकार्यविवेकशून्यत्वात् न प्रतिजानीमः तत्पतीकारं न जानीमः ॥ १२ ॥ १३ ॥
१ स्थितः । तथैवासीत्पुनर्मोनमनुच्छ्वासं चकार ह । इत्यधिकः ।
For Private And Personal Use Only