________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नहीति। मूर्तयः शरीरावयवाः क्षयं न यास्यन्ति, तपःप्रभावादितिभावः॥२१॥एवमिति। वर्षसहस्रस्य वर्षसहस्रसम्बन्धिनी वर्षसहस्त्रानुयायिनीम्। दीक्षाम् | अनुच्यासाभोजनसङ्कल्पम् उद्दिश्येतिशेषः । अप्रतिमा निस्तुलाम् । प्रतिज्ञा एवमेव सर्वदा करिष्यामीत्यध्यवसायं चकार ॥२२॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥६४॥ अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिः पञ्चषष्टितमे-अथ
न हिमे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः॥२१॥ एवं वर्षसहस्रस्य दीक्षां समुनिपुङ्गवः।चकाराप्रतिमा लोके प्रतिज्ञा रघुनन्दन ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ॥६॥ अथ हैमवती राम दिशं त्यक्त्वा महामुनिः। पूर्वी दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥१॥ मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् । चकाराप्रतिमं राम तपः परमदुष्करम् ॥ २॥ पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् । विघ्नैर्बहुभि राधूतं क्रोधो नान्तरमाविशत् ॥ ३॥ स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ॥ ४॥ तस्य वर्षसहस्रस्य व्रते पूणे महाव्रतः। भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम । इन्द्रो द्विजातिभूत्वा तं सिद्धमन्नमयाचत ॥५॥ हमवतीमित्यादि ॥ ३॥ वर्षसहस्रस्य वर्षसहस्रसम्बन्धि, तत्साध्यमित्यर्थः । मौनव्रतं मौनरूपं व्रतम् । कृत्वा सङ्कल्प्येत्यर्थः ॥ २ ॥ काष्ठभूतं.d काष्ठवदवस्थितम् ॥ आधूतं आकुलीकृतमपि । आन्तरं अन्तरवन्तम् , दृढान्तःकरणवन्तमिति यावत् । यद्वा तं प्रति क्रोधः अन्तरं अवकाशं नावि ।। शत् ॥ ३॥ ४॥ तस्य पूर्वसङ्कल्पितस्य । वर्षसहस्रस्य सम्बन्धिनि व्रते पूणे । तस्मिन् काले पारणकाले । सिद्धं पक्वम् । याचिर्दिकर्मकः॥५॥ मकुर्वन, शाश्वतीः समाः बहून संवत्सरान् तिष्ठेयमिति, मनश्चिन्ता मनःसङ्कल्पो बभूवेत्यन्वयः ॥ २० ॥ न हीति । मूर्तयः अवयवाः ॥ २१ ॥ एवमिति । वर्ष सहस्रस्य दीक्षां वर्षसहस्रानुवर्तिनी दीक्षाम् अनुच्छ्सनादिवतसङ्कल्परूपाम् । प्रतिज्ञा प्रतिज्ञाताम् चकार ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ॥ ६४ ॥ अथोति । अथ प्रतिज्ञोत्तरम् । हैमवती दिशम् उत्तराम् ॥ १॥ मौनमिति । वर्षसहस्रस्य वर्षसहस्रस्य सम्बन्धि, तत्साध्यामिति यावत । मौनं मौनरूपं व्रतम् ॥ २॥ पूर्ण इति । काष्ठभूतं काष्ठवदवस्थितम् । आधूतम् आकुलीकृतमपि अन्तरम् अन्तर। वन्तम, धीरामिति यावत् । अर्श आदित्वादत्त प्रत्ययः। यद्वा तं प्रति क्रोधः अन्तरमवकाशं नाविशत् ॥ ३॥४॥ तस्येति । अस्मिन काले व्रतपारणकाले ॥५॥
For Private And Personal Use Only