________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू.
टी.बा.का. सन्देहं सहस्राक्षरिता स्वयमागता वेति ॥१०॥ तत् सम्भाप्रलोभनम् । सहवासस्य कर्मति विज्ञाय सङ्गीतादिप्रलोभनेन हेतुना निश्चित्य ॥ ११ ॥ शैली । शिलाप्रतिमा । दुभंगे दुष्टप्रयो ! "भगः श्रीकाममाहात्म्यवीर्ययवार्ककीर्तिषु" इत्यमरः ॥१२॥ स्वामिपरतन्त्रायाः किमस्याः शापेनेति पश्चात्तापेनानी
सहस्राक्षस्य तत्कर्म विज्ञायमुनिपुङ्गवः । रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥ ११ ॥ यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् । दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ १२॥ ब्राह्मणः सुमहातेजास्तपोबलसम न्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुपीकृताम् ॥१३॥ एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः ॥ १४॥ तस्य शापेन महता रम्भा शैली तदाभवत् ॥ १५॥ वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥ १६॥ कोपेन सुमहातेजास्तपोपहरणे कृते । इन्द्रियैरजितै राम न लेभे शान्ति मात्मनः ॥ १७॥ बभूवास्य मनश्चिन्ता तपोपहरणे कृते ॥ १८ ॥ नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन । अथवा नोच्छसिष्यामि संवत्सरशतान्यपि ॥ १९॥ अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः । तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् । अनुच्छ्रसन्नभुआनस्तिष्ठेयं शाश्वतीः समाः ॥ २० ॥ गृह्णाति-ब्राह्मण इति । ब्राह्मणो ब्रह्मपुत्रो वसिष्ठ इत्याहुः ॥१३॥ सन्तापं शापनिमित्तपश्चात्तापम् ॥१४॥१५॥ वचः रम्भाशापरूपम् । स च इन्द्रश्च ॥१६॥ इन्द्रियैराजितेरिति । उक्तरीत्या कामक्रोधाहतत्वादितिभावः । इन्द्रियैः हेतुभिः आत्मनः मनसः। शान्ति दुःखोपशमम् ॥ १७ ॥ बभूवेति । मनश्चिन्ता तासङ्कल्पः ॥ १८॥ नैवेत्यादि । न च वक्ष्ये कथञ्चन मौनमेव करिष्यामीत्यर्थः । नोच्छसिष्यामि केवलं कुम्भकं करिष्यामीत्यर्थः । उच्छासेन खलु ।। क्रोधादयो भविष्यन्तीति भावः ॥१९॥ अहमिति । यावत्पर्यन्तं ब्राह्मण्यं प्राप्तं भविष्यति तावत्पर्यन्तम्, आत्मानं शरीरं शोपयिष्यामि ॥२०॥ गतः ॥१०॥ ११ ॥ यदिति । शैली शिलारूपा दुर्भगे दुष्टप्रयत्ने ! ॥ १२ ॥ १३॥ अशकुवन् क्रोधं धारयितुं शमयितुमशक्तः सन् , शत्वा सन्तापं गतः ॥ १४ ॥ १५ ॥ वच इति । महर्वचः रम्भाशापवचः श्रुत्वा कन्दर्षः स च इन्द्रश्च निर्गतः ॥ १६॥ कोपेनेति । अजितैरिन्द्रियहेतुभिः आत्मनः मनसः, शान्ति दुःखोपशमनम् । न लेभे ॥ १७-१९ ॥ अहमिति । आत्मानं देहम् । नावद्विशोषयिष्यामि यावत् यावता कालेन ब्राह्मण्यं प्राप्नं भविष्यति । अनुच्छ्सन उच्दास
For Private And Personal Use Only