SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नथ रम्भया तपोविनश्चतुःषष्टितमे-सुरकार्यमित्यादि । लोभनं प्रलोभनम् । काममोहेन कामकृतचित्त्येन । समन्वितं युक्तम् । इह अस्मिन् काले । कौशिकप्रलोभनरूपं सुमहत् सुरकार्य कर्त्तव्यमित्यन्वयः ॥ १॥ ब्रीडिता अशक्यार्थवचननिमित्तल जावती ॥२॥ उत्सृजते उत्वक्ष्यति । ततः तस्मात् सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया । लोभनं कोशिकस्येह काममोहसमन्वितम् ॥ १ ॥ तथोक्ता साप्सराराम सहस्राक्षेण धीमता । वीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥२॥ अयं सुरपते घोरो विश्वामित्रो महामुनिः। क्रोधमुत्सृजते घोरं मयि देव न संशयः ॥३॥ ततो हि मे भयं देव प्रसादं कर्तुमर्हसि । एवमुक्तम्तया राम रम्भया भीतया तदा। तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ॥४॥ मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् ॥५॥ कोकिलो हृदयग्राही माधवे सचिरमे । अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः॥६॥ त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।तमृषि कौशिक रम्भे भेदयस्व तपस्विनम् ॥७॥ सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥८॥ कोकिलम्य तु शुश्राव वल्गु व्याहरतः स्वनम् । सम्प्रहष्टेन मनसा तत एनामुदेक्षत॥९॥अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन चरम्भाया मुनिःसन्देहमागतः॥१०॥ शोधोत्सर्जनात् । मे मम । भयं भीतिः । प्रसादं नियोगनिवृत्तिरूपम् ॥३॥४॥माभैषि रम्भे इत्यत्र आषों ह्रस्वः ॥५॥ कोकिल इति । अहं कोकिलो । भूत्वा माधवे वसन्ते सति स्थास्यामि॥६॥रूपं सौन्दर्यम् । बहुगुणं बहवः शृङ्गारचेष्टारूपा गुणा यस्य तथोक्तम् । भेदयस्व चलचित्तं कारय॥७॥ सेति ।। ललिता सुन्दरी ॥८॥ वल्गु मनोहरम् । सम्प्रहृष्टेन कोकिलखश्रवणजसन्तोषवता ॥९॥ अथेति । तस्य कोकिलस्य । गीतेन रम्भाया इत्यनुषज्यते। सुरकार्यमिति । लोभनं प्रलोभनम् । कामजनितेन मोहेन आन्ध्येन समन्वितः ॥ १ ॥ २॥ अयमिति । उत्सृजते उत्स्रक्ष्यते ॥३॥ ततः क्रोधात मे भयं। भीतिः ॥ ४ ॥ ५॥ कोकिल इति । हृदयग्राही कोकिलः । माधवे वसन्ते सति ॥६॥ त्वमिति । रूपं सौन्दर्यम् । बहुगुणं लोकोत्तरम् । भेदयस्व प्रलोभयस्व M॥७॥ ८॥ कोकिलस्येति । वल्गु मनोहरम् ॥९॥ अथेति । तस्य कोकिलस्य शब्देन कूजितेनच रम्भाया गीतेन दर्शनेन च सन्देहम् एतत् किनिमित्तमिति संशयं MI For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy